अथर्ववेद - काण्ड 5/ सूक्त 23/ मन्त्र 2
अ॒स्येन्द्र॑ कुमा॒रस्य॒ क्रिमी॑न्धनपते जहि। ह॒ता विश्वा॒ अरा॑तय उ॒ग्रेण॒ वच॑सा॒ मम॑ ॥
स्वर सहित पद पाठअ॒स्य । इ॒न्द्र॒ । कु॒मा॒रस्य॑ । क्रिमी॑न् । ध॒न॒ऽप॒ते॒ । ज॒हि॒ । ह॒ता: । विश्वा॑:। अरा॑तय: । उ॒ग्रेण॑ । वच॑सा । मम॑ ॥२३.२॥
स्वर रहित मन्त्र
अस्येन्द्र कुमारस्य क्रिमीन्धनपते जहि। हता विश्वा अरातय उग्रेण वचसा मम ॥
स्वर रहित पद पाठअस्य । इन्द्र । कुमारस्य । क्रिमीन् । धनऽपते । जहि । हता: । विश्वा:। अरातय: । उग्रेण । वचसा । मम ॥२३.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 23; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अस्य) निर्दिष्टस्य (इन्द्र) हे परमैश्वर्यवन् वैद्य (कुमारस्य) अ० ३।१२।३। कमनीयस्य बालकस्य (क्रिमीन्) कीटान् (धनपते) हे धनस्य स्वामिन् (जहि) नाशय (हताः) नाशिताः (विश्वाः) सर्वे (अरातयः) शत्रवः (उग्रेण) प्रचण्डेन (वचसा) विज्ञानवचनेन (मम) मदीयेन ॥
इस भाष्य को एडिट करें