अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 10
सूक्त - शुक्रः
देवता - कृत्याप्रतिहरणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
अप॑थे॒ना ज॑भारैणां॒ तां प॒थेतः प्र हि॑ण्मसि। अधी॑रो मर्या॒धीरे॑भ्यः॒ सं ज॑भा॒राचि॑त्त्या ॥
स्वर सहित पद पाठअप॑थेन । आ । ज॒भा॒र॒ । ए॒ना॒म् । ताम् । प॒था । इ॒त: । प्र । हि॒ण्म॒सि॒ । अधी॑र: । म॒र्या॒ऽधीरे॑भ्य: । सम् । ज॒भा॒र॒ ।अचि॑त्त्या ॥३१.१०॥
स्वर रहित मन्त्र
अपथेना जभारैणां तां पथेतः प्र हिण्मसि। अधीरो मर्याधीरेभ्यः सं जभाराचित्त्या ॥
स्वर रहित पद पाठअपथेन । आ । जभार । एनाम् । ताम् । पथा । इत: । प्र । हिण्मसि । अधीर: । मर्याऽधीरेभ्य: । सम् । जभार ।अचित्त्या ॥३१.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(अपथेन) ऋक्पूरब्धूःपथामानक्षे। पा० ५।४।७४। इति अ+पथिन्−अप्रत्ययः। कुमार्गेण (आ) (जभार) जहार। आनिनाय (एनाम्) कृत्याम् (ताम्) (पथा) सुमार्गेण (इतः) अस्मात् स्थानात् (प्र हिण्मसि) हि गतिवृद्धयोः। हिनुमीना। पा० ८।४।१५। इति णत्वम्। प्रेषयामः। अपसारयामः (अधीरः) सुसूधाञ्गृधिभ्यः क्रन्। उ० २।२४। इति डुधाञ् धारणपोषणयोः−क्रन्। अधारकः। अपण्डितः (मर्याधीरेभ्यः) मर्यादाधारकेभ्यः (सम्) सम्यक् (जभार) निनाय (अचित्त्या) अज्ञानेन ॥
इस भाष्य को एडिट करें