अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 11
सूक्त - शुक्रः
देवता - कृत्याप्रतिहरणम्
छन्दः - बृहतीगर्भानुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
यश्च॒कार॒ न श॒शाक॒ कर्तुं॑ श॒श्रे पाद॑म॒ङ्गुरि॑म्। च॒कार॑ भ॒द्रम॒स्मभ्य॑मभ॒गो भग॑वद्भ्यः ॥
स्वर सहित पद पाठय: । च॒कार॑ । न । श॒शाक॑ । कर्तु॑म् । श॒श्रे । पाद॑म् । अ॒ङ्गुरि॑न् । च॒कार॑ । भ॒द्रम् । अ॒स्मभ्य॑म् । अ॒भ॒ग: । भग॑वत्ऽभ्य: ॥३१.११॥
स्वर रहित मन्त्र
यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम्। चकार भद्रमस्मभ्यमभगो भगवद्भ्यः ॥
स्वर रहित पद पाठय: । चकार । न । शशाक । कर्तुम् । शश्रे । पादम् । अङ्गुरिन् । चकार । भद्रम् । अस्मभ्यम् । अभग: । भगवत्ऽभ्य: ॥३१.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(यः) दुष्टः (चकार) कृतवान् (न) निषेधे (शशाक) शक्त आसीत् (कर्तुम्) अ० ४।१८।६। कृञ् हिंसायाम्−तुन्। हिंसाम् (शश्रे) शीर्णवान् (पादम्) चरणम् (अङ्गुरिम्) अङ्गुलिम् (चकार) (भद्रम्) कल्याणम् (अस्मभ्यम्) धर्मात्मभ्यः (अभगः) अनैश्वर्यः (भगवद्भ्यः) ऐश्वर्यवद्भ्यः ॥
इस भाष्य को एडिट करें