Loading...
अथर्ववेद > काण्ड 5 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 12
    सूक्त - शुक्रः देवता - कृत्याप्रतिहरणम् छन्दः - पथ्याबृहती सूक्तम् - कृत्यापरिहरण सूक्त

    कृ॑त्या॒कृतं वल॒गिनं॑ मू॒लिनं॑ शपथे॒य्य॑म्। इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेना॒ग्निर्वि॑ध्यत्व॒स्तया॑ ॥

    स्वर सहित पद पाठ

    कृ॒त्या॒ऽकृत॑म् । व॒ल॒गिन॑म् । मू॒लिन॑म् । श॒प॒थे॒य्य᳡म् । इन्द्र॑: । तम् । ह॒न्तु॒ । म॒ह॒ता । व॒धेन॑ । अ॒ग्नि: । वि॒ध्य॒तु॒ । अ॒स्तया॑ ॥३१.१२॥


    स्वर रहित मन्त्र

    कृत्याकृतं वलगिनं मूलिनं शपथेय्यम्। इन्द्रस्तं हन्तु महता वधेनाग्निर्विध्यत्वस्तया ॥

    स्वर रहित पद पाठ

    कृत्याऽकृतम् । वलगिनम् । मूलिनम् । शपथेय्यम् । इन्द्र: । तम् । हन्तु । महता । वधेन । अग्नि: । विध्यतु । अस्तया ॥३१.१२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 12

    टिप्पणीः - १२−(कृत्याकृतम्) अ० ४।१७।४। हिंसाकारिणम् (वलगिनम्) म० ४। वलग-इनि। आच्छादनकर्माणम् (मूलिनम्) प्राप्तमूलम्। सुदृढम् (शपथेय्यम्) ढश्छन्दसि। पा० ४।४।१०६। इति बाहुलकात् शपथ−ढ। शपथे साधुः शपथेयः। तत्र साधुः। पा० ४।४।९८। इति यत्। शपथेयेषु साधुस्तम्। महाकुवचनकारिणम् (इन्द्रः) परमैश्वर्यः (हन्तु) नाशयतु (महता) विशालेन (वधेन) हननसाधनेन वज्रेण (अग्निः) ज्ञानी राजा (विध्यतु) ताडयतु (अस्तया) हसिमृग्रिण्०। उ० ३।८६। इति असु क्षेपणे−तन्, टाप्। अस्त्रेण ॥ इति षष्ठोऽनुवाकः ॥ इति द्वादशः प्रपाठकः ॥ पञ्चमं काण्डं समाप्तम् ॥ इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगायकवाड़ाधिष्ठितबड़ोदेपुरीगतश्रावणमास-परीक्षायाम् ऋक्सामाथर्ववेदभाष्येषु लब्धदक्षिणेन श्रीपण्डितक्षेमकरणदासत्रिवेदिना कृते अथर्ववेदभाष्ये पञ्चमं काण्डं समाप्तम् ॥

    इस भाष्य को एडिट करें
    Top