अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 4
सूक्त - शुक्रः
देवता - कृत्याप्रतिहरणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
यां ते॑ च॒क्रुर॑मू॒लायां॑ वल॒गं वा॑ नरा॒च्याम्। क्षेत्रे॑ ते कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
स्वर सहित पद पाठयाम् । ते॒ । च॒क्रु: । अ॒मू॒लाया॑म् । व॒ल॒गम् । वा॒ । न॒रा॒च्याम् । क्षेत्रे॑ । ते॒ । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.४ ॥
स्वर रहित मन्त्र
यां ते चक्रुरमूलायां वलगं वा नराच्याम्। क्षेत्रे ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥
स्वर रहित पद पाठयाम् । ते । चक्रु: । अमूलायाम् । वलगम् । वा । नराच्याम् । क्षेत्रे । ते । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.४ ॥
अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(अमूलायाम्) खर्जिपिञ्चादिभ्य ऊरोलचौ। उ० ४।९०। इति अम गतौ भोजने−ऊलच्, टाप्। प्रापणीयायाम् (वलगम्) मुदिग्रोर्गग्गौ। उ० १।१२८। इति वल संवरणे−ग प्रत्ययः, अकारागमः, तृतीयास्थाने प्रथमा। संवरणेन। आच्छादनेन (वा) (नराच्याम्) नर+अञ्चु गतिपूजनयोः−क्विन्, ङीप्। नरैः पूजनीयायाम् ओषध्याम् (क्षेत्रे) ऐश्वर्यहेतौ शस्याद्युत्पत्तिस्थाने। अन्यद् गतम् ॥
इस भाष्य को एडिट करें