Loading...
अथर्ववेद > काण्ड 5 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 8
    सूक्त - शुक्रः देवता - कृत्याप्रतिहरणम् छन्दः - अनुष्टुप् सूक्तम् - कृत्यापरिहरण सूक्त

    यां ते॑ कृ॒त्यां कूपे॑ऽवद॒धुः श्म॑शा॒ने वा॑ निच॒ख्नुः। सद्म॑नि कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥

    स्वर सहित पद पाठ

    याम् । ते॒ । कृ॒त्याम् । कूपे॑ । अ॒व॒ऽद॒धु: । श्म॒शा॒ने । वा॒ । नि॒ऽच॒ख्नु: । सद्म॑नि । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.८॥


    स्वर रहित मन्त्र

    यां ते कृत्यां कूपेऽवदधुः श्मशाने वा निचख्नुः। सद्मनि कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥

    स्वर रहित पद पाठ

    याम् । ते । कृत्याम् । कूपे । अवऽदधु: । श्मशाने । वा । निऽचख्नु: । सद्मनि । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.८॥

    अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 8

    टिप्पणीः - ८−(कूपे) गम्यते जलार्थिभिः। कुयुभ्यां च। उ० ३।२७। इति कुङ् गतिशोषणयोः−प, स च किद् दीर्घश्च। जलाधारे (अवदधुः) अवधारितवन्तः (श्मशाने) श्मन्+शाने। शीङ् स्वप्ने−मनिन्, डिच्च। श्मानः शवाः शेरते यत्र। शीङ्−शानच्, डिच्च। शवदाहस्थाने (निचख्नुः) खनु अवदारणे लिट्। विदार्य धृतवन्तः (सद्मनि) गृहे। अन्यद् गतम्। म० १ ॥

    इस भाष्य को एडिट करें
    Top