अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 15
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - साम्न्यनुष्टुप्
सूक्तम् - अतिथि सत्कार
यान्यु॑लूखलमुस॒लानि॒ ग्रावा॑ण ए॒व ते ॥
स्वर सहित पद पाठयानि॑ । उ॒लू॒ख॒ल॒ऽमु॒स॒लानि॑ । ग्रावा॑ण: । ए॒व । ते ॥६.१५॥
स्वर रहित मन्त्र
यान्युलूखलमुसलानि ग्रावाण एव ते ॥
स्वर रहित पद पाठयानि । उलूखलऽमुसलानि । ग्रावाण: । एव । ते ॥६.१५॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 1;
मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(यानि) (उलूखलमुसलानि) उरु+खल चलने-अच्। उरु विस्तीर्णं खलं धान्यमर्दनस्थानं यस्य तद् उलूखलं पृषोदरादिरूपम्। उलूखलमुरुकरं वोर्क्करं वोर्ध्वखं वा-निरु० ९।२०। वृषादिभ्यश्चित्। उ० १।१०६। मुस खण्डने-कल, चित्। मुसलं मुहुः सरम्=निरु० ९।३५। धान्यादिकण्डनसाधनानि (ग्रावाणः) अ० ३।१०।५। गॄ विज्ञापे शब्दे च-क्वनिप्। शास्त्रोपदेशाः (एव) (ते) ॥
इस भाष्य को एडिट करें