अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 17
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - त्रिपदा विराड्भुरिग्गायत्री
सूक्तम् - अतिथि सत्कार
स्रुग्दर्वि॒र्नेक्ष॑णमा॒यव॑नं द्रोणकल॒शाः कु॒म्भ्यो वाय॒व्यानि॒ पात्रा॑णी॒यमे॒व कृ॑ष्णाजि॒नम् ॥
स्वर सहित पद पाठस्रुक् । दर्वि॑: । नेक्ष॑णम् । आ॒ऽयव॑नम् । द्रो॒ण॒ऽक॒ल॒शा: । कु॒म्भ्य᳡: । वा॒य॒व्या᳡नि । पात्रा॑णि । इ॒यम् । ए॒व । कृ॒ष्ण॒ऽअ॒जि॒नम् ॥६.१७॥
स्वर रहित मन्त्र
स्रुग्दर्विर्नेक्षणमायवनं द्रोणकलशाः कुम्भ्यो वायव्यानि पात्राणीयमेव कृष्णाजिनम् ॥
स्वर रहित पद पाठस्रुक् । दर्वि: । नेक्षणम् । आऽयवनम् । द्रोणऽकलशा: । कुम्भ्य: । वायव्यानि । पात्राणि । इयम् । एव । कृष्णऽअजिनम् ॥६.१७॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 1;
मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १६, १७−(शूर्पम्) सुशॄभ्यां निच्च। उ० ३।२६। शॄ हिंसायाम्-प प्रत्ययः, नित् किच् च, यद्वा शूर्प माने-घञ्। शूर्पमशनपवनं शृणातेर्वा-निरु० ६।९। धान्यस्फोटनयन्त्रम् (पवित्रम्) पुवः संज्ञायाम्। पा० ३।२।१८५। पूञ्, शोधने−इत्र। चालनी (तुषाः) तुष प्रीतौ-क, टाप्। धान्यत्वचः (ऋजीषा) अर्जेर्ऋज च। उ० २८। अर्ज अर्जने−ईषन्, कित्, ऋजादेशः, टाप्। यत्सोमस्य पूयमानस्यातिरिच्यते तदृजीषमपार्जितं भवति-निरु० ५।१२। नीरसं सोमचूर्णम् (अभिसवनीः) अभि+षुञ् स्नपने स्नाने च-ल्युट्, ङीप्। मार्जन्यः। प्रोक्षण्यः (आपः) यज्ञजलानि (स्रुक्) चिक् च। उ० २।६२। स्रु गतौ चिक्। वटपत्राकृतिर्यज्ञपात्रभेदः (दर्विः) अ० ४।१४।१। काष्ठादिचमसः (नेक्षणम्) णिक्ष चुम्बने-ल्युट्। शूलशलाकादिद्रव्यम् (आयवनम्) यु मिश्रणामिश्रणयोः-ल्युट्। पाकसाधनपात्रम्। कटाहः (द्रोणकलशाः) यज्ञघटाः (कुम्भ्यः) उखाः (वायव्यानि) वाय्वृतुपित्रुषसो यत्। पा० ४।२।३१। वायु-यत्। वायुदेवताकानि। वायुसाधकानि (पात्राणि) पा रक्षणे ष्ट्रन्। भाजनानि। यन्त्राणि (इयम्) प्रसिद्धा भूमिः (एव) (कृष्णाजिनम्) कृष्णसारमृगचर्मवत् ॥
इस भाष्य को एडिट करें