अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 3
वि॒द्युज्जि॒ह्वा म॒रुतो॒ दन्ता॑ रे॒वती॑र्ग्री॒वाः कृत्ति॑का स्क॒न्धा घ॒र्मो वहः॑ ॥
स्वर सहित पद पाठवि॒द्युत् । जि॒ह्वा । म॒रुत॑: । दन्ता॑: । रे॒वती॑: । ग्री॒वा: । कृत्ति॑का: । स्क॒न्धा: । घ॒र्म: । वह॑: ॥१२.३॥
स्वर रहित मन्त्र
विद्युज्जिह्वा मरुतो दन्ता रेवतीर्ग्रीवाः कृत्तिका स्कन्धा घर्मो वहः ॥
स्वर रहित पद पाठविद्युत् । जिह्वा । मरुत: । दन्ता: । रेवती: । ग्रीवा: । कृत्तिका: । स्कन्धा: । घर्म: । वह: ॥१२.३॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(विद्युत्) अभिसर्पणी तडित् (जिह्वा) अ० १।१०।३। जि जये−वन् हुक् च। रसना (मरुतः) अ० १।२०।१। दोषनाशकाः पवनाः (दन्ताः) अ० ४।३।६। दशनाः (रेवतीः) भृमृदृशियजि०। उ० ३।११०। रेवृ गतौ-अतच्, ङीष्। रेवत्यादीनि नक्षत्राणि (ग्रीवाः) (कृत्तिकाः) कृतिभिदिलतिभ्यः कित्। उ० ३।१४७। कृती छेदने वेष्टने च-तिकन्, टाप्। कृत्तिकादीनि नक्षत्राणि (स्कन्धाः) (घर्मः) सूर्यप्रकाशः (वहः) वह प्रापणे-अच्। वहनसामर्थ्यम् ॥
इस भाष्य को एडिट करें