Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 5
    सूक्त - ब्रह्मा देवता - गौः छन्दः - आर्च्यनुष्टुप् सूक्तम् - गौ सूक्त

    श्ये॒नः क्रो॒डो॒न्तरि॑क्षं पाज॒स्यं बृह॒स्पतिः॑ क॒कुद्बृ॑ह॒तीः कीक॑साः ॥

    स्वर सहित पद पाठ

    श्ये॒न: । क्रो॒ड: । अ॒न्तर‍ि॑क्षम् । पा॒ज॒स्य᳡म् । बृह॒स्पति॑: । क॒कुत् । बृ॒ह॒ती: । कीक॑सा: ॥१२.५॥


    स्वर रहित मन्त्र

    श्येनः क्रोडोन्तरिक्षं पाजस्यं बृहस्पतिः ककुद्बृहतीः कीकसाः ॥

    स्वर रहित पद पाठ

    श्येन: । क्रोड: । अन्तर‍िक्षम् । पाजस्यम् । बृहस्पति: । ककुत् । बृहती: । कीकसा: ॥१२.५॥

    अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 5

    टिप्पणीः - ५−(श्येनः) अ० ३।३।३। श्येन आदित्यो भवति श्यायतेर्गतिकर्मणः-निरु० १४।१३। सूर्यः (क्रोडः) अ० ९।४।१५। अङ्कः (अन्तरिक्षम्) मध्यलोकः (पाजस्यम्) अ० ४।१४।८। पाजसे बलाय हितम्। जठरम् (बृहस्पतिः) लोकविशेषः (ककुत्) अ० ६।८६।३। शिखा (बृहतीः) महत्यो दिशः (कीकसाः) अ० २।३३।२। जत्रुवक्षोगतास्थीनि ॥

    इस भाष्य को एडिट करें
    Top