Loading...
अथर्ववेद > काण्ड 4 > सूक्त 40

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 40/ मन्त्र 3
    सूक्त - शुक्रः देवता - वरुणः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    ये प॒श्चाज्जुह्व॑ति जातवेदः प्र॒तीच्या॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान्। वरु॑णमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥

    स्वर सहित पद पाठ

    ये । प॒श्चात् । जुह्व॑ति । जा॒त॒ऽवे॒द॒: । प्र॒तीच्या॑: । दि॒श: । अ॒भि॒ऽदास॑न्ति । अ॒स्मान् । वरु॑णम् । ऋ॒त्वा । ते । परा॑ञ्च: । व्य॒थ॒न्ता॒म् । प्र॒त्यक् । ए॒ना॒न् । प्र॒ति॒ऽस॒रेण॑ । ह॒न्मि॒ ॥४०.३॥


    स्वर रहित मन्त्र

    ये पश्चाज्जुह्वति जातवेदः प्रतीच्या दिशोऽभिदासन्त्यस्मान्। वरुणमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान्प्रतिसरेण हन्मि ॥

    स्वर रहित पद पाठ

    ये । पश्चात् । जुह्वति । जातऽवेद: । प्रतीच्या: । दिश: । अभिऽदासन्ति । अस्मान् । वरुणम् । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण । हन्मि ॥४०.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 40; मन्त्र » 3

    भावार्थ -
    जो (पश्चात्) पीठ पीछे से या पश्चिम दिशा की ओर से (जुह्वति) अपने को आहुति कर दें और उस दिशा से (अस्मान् अभिदासन्ति) हमें विनाश करें वे (वरुणम् ऋत्वा० इत्यादि) वरुण, निवारक शक्ति को प्राप्त होकर परास्त होकर जायं और उनका पीछा करके मैं विनाश करूं।

    ऋषि | देवता | छन्द | स्वर - शुक्र ऋषिः। कृत्याप्रतिहरणाय बहवो देवताः। २ जगती। ८ पुरीतिशक्वरी पदयुक्ता जगती। १, ३-५ त्रिष्टुभः। अष्टर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top