अथर्ववेद - काण्ड 4/ सूक्त 40/ मन्त्र 7
य उ॒परि॑ष्टा॒ज्जुह्व॑ति जातवेद ऊ॒र्ध्वाया॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान्। सूर्य॑मृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥
स्वर सहित पद पाठये । उ॒परि॑ष्टात् । जुह्व॑ति। जा॒त॒ऽवे॒द॒: । ऊ॒र्ध्वाया॑: । दि॒श: । अ॒भि॒ऽदास॑न्ति । अ॒स्मान् । सूर्य॑म् । ऋ॒त्वा । ते । परा॑ञ्च: । व्य॒थ॒न्ता॒म् । प्र॒त्यक् । ए॒ना॒न् । प्र॒ति॒ऽस॒रेण॑ । ह॒न्मि॒ ॥४०.७॥
स्वर रहित मन्त्र
य उपरिष्टाज्जुह्वति जातवेद ऊर्ध्वाया दिशोऽभिदासन्त्यस्मान्। सूर्यमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान्प्रतिसरेण हन्मि ॥
स्वर रहित पद पाठये । उपरिष्टात् । जुह्वति। जातऽवेद: । ऊर्ध्वाया: । दिश: । अभिऽदासन्ति । अस्मान् । सूर्यम् । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण । हन्मि ॥४०.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 40; मन्त्र » 7
विषय - आक्रमणकारी शत्रुओं के विनाश करने का उपदेश।
भावार्थ -
हे जातवेदः ! (ये उपरिष्टात्०) जो ऊपर की ओर अपने पदार्थों की आहुति करें और (ऊर्ध्वायाः दिशः अभिदासन्ति अस्मान्) ऊर्ध्व दिशा से हमें नष्ट करना चाहें वे सूर्यवत् तेजस्वी को प्राप्त होकर पराजित हों और उनका पीछा करके मैं विनाश करूं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शुक्र ऋषिः। कृत्याप्रतिहरणाय बहवो देवताः। २ जगती। ८ पुरीतिशक्वरी पदयुक्ता जगती। १, ३-५ त्रिष्टुभः। अष्टर्चं सूक्तम्॥
इस भाष्य को एडिट करें