Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 24
    सूक्त - काङ्कायनः देवता - अर्बुदिः छन्दः - त्र्यवसाना सप्तपदा शक्वरी सूक्तम् - शत्रुनिवारण सूक्त

    वन॒स्पती॑न्वानस्प॒त्यानोष॑धीरु॒त वी॒रुधः॑। ग॑न्धर्वाप्स॒रसः॑ स॒र्पान्दे॒वान्पु॑ण्यज॒नान्पि॒तॄन्। सर्वां॒स्ताँ अ॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ॥

    स्वर सहित पद पाठ

    वन॒स्पती॑न् । वा॒न॒स्प॒त्यान् । ओष॑धी: । उ॒त । वी॒रुध॑: । ग॒न्ध॒र्व॒ऽअ॒प्स॒रस॑: । स॒र्पान् । दे॒वान् । पु॒ण्य॒ऽज॒नान् । पि॒तॄन् । सर्वा॑न् । तान् । अ॒र्बु॒दे॒ । त्वम् । अ॒मित्रे॑भ्य: । दृ॒शे । कु॒रु॒ ।उ॒त्ऽआ॒रान् । च॒ । प्र । द॒र्श॒य॒ ॥११.२४॥


    स्वर रहित मन्त्र

    वनस्पतीन्वानस्पत्यानोषधीरुत वीरुधः। गन्धर्वाप्सरसः सर्पान्देवान्पुण्यजनान्पितॄन्। सर्वांस्ताँ अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥

    स्वर रहित पद पाठ

    वनस्पतीन् । वानस्पत्यान् । ओषधी: । उत । वीरुध: । गन्धर्वऽअप्सरस: । सर्पान् । देवान् । पुण्यऽजनान् । पितॄन् । सर्वान् । तान् । अर्बुदे । त्वम् । अमित्रेभ्य: । दृशे । कुरु ।उत्ऽआरान् । च । प्र । दर्शय ॥११.२४॥

    अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 24

    भावार्थ -
    (वनस्पतीन् वानस्पत्यान्) बनस्पतियों, वृक्षों और वृक्ष के बने नाना प्रकार के हथियारों को, (ओषधीः उत वीरुधः) ओषधियों और लताओं को (गन्धर्वाप्सरसः) नव युवकों, स्त्रियों, (सर्पान् देवान् पुण्यजनान् पितॄन्) सांपों को या गुप्तचरों, देवों, शासक, राजाओं, (पुण्यजनान्) पुण्यात्मा पुरुष और पालक पितृ लोग (तान् सर्वान्) उन सब को हे (अर्बुदे) सेनापते (त्वम् अमित्रेभ्यः दृशे कुरु) तू अपने शत्रुओं को दिखलाने के लिये कर और (उदारां च प्रदर्शय) बड़े बड़े संहारकारी उपायों को भी दिखला।

    ऋषि | देवता | छन्द | स्वर - कांकायन ऋषिः। मन्त्रोक्ता अर्बुदिर्देवता। १ सप्तपदा विराट् शक्वरी त्र्यवसाना, ३ परोष्णिक्, ४ त्र्यवसाना उष्णिग्बृहतीगर्भा परा त्रिष्टुप् षट्पदातिजगती, ९, ११, १४, २३, २६ पथ्यापंक्तिः, १५, २२, २४, २५ त्र्यवसाना सप्तपदा शक्वरी, १६ व्यवसाना पञ्चपदा विराडुपरिष्टाज्ज्योतिस्त्रिष्टुप्, १७ त्रिपदा गायत्री, २, ५–८, १०, १२, १३, १७-२१ अनुष्टुभः। षडविंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top