अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 25
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - त्र्यवसाना सप्तपदा शक्वरी
सूक्तम् - शत्रुनिवारण सूक्त
ई॒शां वो॑ म॒रुतो॑ दे॒व आ॑दि॒त्यो ब्रह्म॑ण॒स्पतिः॑। ई॒शां व॒ इन्द्र॑श्चा॒ग्निश्च॑ धा॒ता मि॒त्रः प्र॒जाप॑तिः। ई॒शां व॒ ऋष॑यश्चक्रुर॒मित्रे॑षु समी॒क्षय॑न्रदि॒ते अ॑र्बुदे॒ तव॑ ॥
स्वर सहित पद पाठई॒शाम् । व॒: । म॒रुत॑: । दे॒व: । आ॒दि॒त्य: । ब्रह्म॑ण: । पति॑: । ई॒शाम् । व॒: । इन्द्र॑: । च॒ । अ॒ग्नि: । च॒ । धा॒ता । मि॒त्र: । प्र॒जाऽप॑ति: । ई॒शाम् । व॒: । ऋष॑य: । च॒क्रु॒: । अ॒मित्रे॑षु । स॒म्ऽई॒क्षय॑न् । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.२५॥
स्वर रहित मन्त्र
ईशां वो मरुतो देव आदित्यो ब्रह्मणस्पतिः। ईशां व इन्द्रश्चाग्निश्च धाता मित्रः प्रजापतिः। ईशां व ऋषयश्चक्रुरमित्रेषु समीक्षयन्रदिते अर्बुदे तव ॥
स्वर रहित पद पाठईशाम् । व: । मरुत: । देव: । आदित्य: । ब्रह्मण: । पति: । ईशाम् । व: । इन्द्र: । च । अग्नि: । च । धाता । मित्र: । प्रजाऽपति: । ईशाम् । व: । ऋषय: । चक्रु: । अमित्रेषु । सम्ऽईक्षयन् । रदिते । अर्बुदे । तव ॥११.२५॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 25
विषय - महासेना-संचालन और युद्ध।
भावार्थ -
हे (अर्बुदे) अर्बुदे ! सेनानायक ! (वः) तुम्हारे (अमित्रेषु) शत्रुओं में भी (मरुतः) वायुओं के समान वेगवान् भट (आदित्यः) सूर्य के समान प्रतापी पुरुष, (ब्रह्मणस्पतिः) ब्रह्मज्ञानी, (ईशां चक्रुः) उन पर शासन करते हैं। (इन्द्रः च अग्निः च धाता मित्रः प्रजापतिः) तुम्हारे शत्रुओं में इन्द्र, राजा, अग्नि के समान शत्रुतापकरी धाता, सर्वपालक सब के मित्र और प्रजापति के समान प्रजापालक पुरुष (ईशां चक्रुः) उनका शासन करते हैं (वः अमित्रेषु ऋषयः ईशां चक्रुः) तुम्हारे शत्रुओं पर भी ऋषि अर्थात् मन्त्र द्रष्टा विद्वान् लोग वश करते हैं। (तव रदिते) तेरे आक्रमण कर लेने पर भी उनको (समीक्षयन्) भली प्रकार देखता हुआ तू शत्रु का नाश कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कांकायन ऋषिः। मन्त्रोक्ता अर्बुदिर्देवता। १ सप्तपदा विराट् शक्वरी त्र्यवसाना, ३ परोष्णिक्, ४ त्र्यवसाना उष्णिग्बृहतीगर्भा परा त्रिष्टुप् षट्पदातिजगती, ९, ११, १४, २३, २६ पथ्यापंक्तिः, १५, २२, २४, २५ त्र्यवसाना सप्तपदा शक्वरी, १६ व्यवसाना पञ्चपदा विराडुपरिष्टाज्ज्योतिस्त्रिष्टुप्, १७ त्रिपदा गायत्री, २, ५–८, १०, १२, १३, १७-२१ अनुष्टुभः। षडविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें