अथर्ववेद - काण्ड 20/ सूक्त 143/ मन्त्र 9
प॒नाय्यं॒ तद॑श्विना कृ॒तं वां॑ वृष॒भो दि॒वो रज॑सः पृथि॒व्याः। स॒हस्रं॒ शंसा॑ उ॒त ये गवि॑ष्टौ॒ सर्वाँ॒ इत्ताँ उप॑ याता॒ पिब॑ध्यै ॥
स्वर सहित पद पाठप॒नाय्य॑म् । तत् । अ॒श्वि॒ना॒ । कृ॒तम् । वा॒म् । वृ॒ष॒भ: । दि॒व: । रज॑स: । पृ॒थि॒व्या: ॥ स॒हस्र॑म् । शंसा॑: । उ॒त । ये । गोऽइ॑ष्टौ । सर्वा॑न् । इत् । तान् । उप॑ । या॒त॒ । पिब॑ध्यै ॥१४३.९॥
स्वर रहित मन्त्र
पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः। सहस्रं शंसा उत ये गविष्टौ सर्वाँ इत्ताँ उप याता पिबध्यै ॥
स्वर रहित पद पाठपनाय्यम् । तत् । अश्विना । कृतम् । वाम् । वृषभ: । दिव: । रजस: । पृथिव्या: ॥ सहस्रम् । शंसा: । उत । ये । गोऽइष्टौ । सर्वान् । इत् । तान् । उप । यात । पिबध्यै ॥१४३.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 143; मन्त्र » 9
विषय - विद्वानों के कर्त्तव्य।
भावार्थ -
हे (अश्विन) विद्वान् पुरुषो ! (वां) तुम दोनों का (तत्) वह नाना प्रकार का (कृतम्) किया हुआ कार्य (पनाय्यं) स्तुति करने योग्य। (दिवः) द्यौलोक से (वृषभः) वर्षण करने वाला सूर्य (रजसः वृषभः) अन्तरिक्ष से वर्षण करने वाला मेघ और उसके समान (पृथिव्या वृषभः) पृथिवी लोक का भी सर्वश्रेष्ठ सुखों का वर्षक नरपति (उत्) और (गविष्टौ) वाणी पृथिवी और इन्द्रियों के प्राप्ति कार्य में (सहस्रं शंसाः) हजारों स्तुतिकर्ता ज्ञानप्रद विद्वान् पुरुष हैं (तान् सर्वान् इत्) उन सबको (पिबध्यै) पान करने के लिये ज्ञान-रस ग्रहण करने के लिये तुम सब लोग (उपयात) प्राप्त होवो।
टिप्पणी -
॥ इति नवमोऽनुवाकः॥
॥ शस्त्रकाण्डं नाम विशं काण्डं समाप्तम्॥
अथर्ववेदसंहिता च संपूर्णा॥
रसवम्ङ्कचन्द्राब्दे पौषे शुक्ले बुधेऽहनि।
चतुर्दश्यां पूर्तिमागाद्विशंकाण्डमथर्वणः॥
ज्ञानविज्ञानसंपूर्णो नानाधर्मपरिष्कृतः।
कुर्याच्छिवमधीतो नो वेदज्ञानमयः प्रभुः॥
मानुषोऽहं स्वल्पमतिः स्वभावेन स्खलद्-गतिः।
इति ज्ञानवतां क्षम्योऽनुग्राह्यस्तद्-दयादृशा॥
आगमप्रवणश्चाहं नापवाद्यः स्खलन्नपि।
नहि सदृर्त्मनागच्छन् स्खलितेप्वप्यपोद्यते॥
गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः।
हसन्ति दुर्जनास्तत्र समादधति सज्जनाः॥
काखलेन सह स्पर्द्धा सज्जनस्यभिमानिनः।
भाषणं भीषणं साधुदूषणं यस्य भूषणम्॥
इति प्रतिष्ठित विद्यालंकार—मीमांसातीर्थ विरुदोपशोभित—श्रीमज्जयदेवशर्मणा विरचितेऽथर्वणो ब्रह्मवेदस्यलोकभाष्ये विंश काण्ड समाप्तम्।
समाप्तश्चाथर्ववेदालोकभाष्यम्॥ शिवम्॥ ओ३म् खं ब्रहम॥
ऋषि | देवता | छन्द | स्वर - १-७ पुरुमीढाजमीढावृषी। त्रिष्टुभः। ८ मधुमती। वामदेव ऋषिः। ९ मेधातिथि मेध्यातिथी ऋषिः॥
इस भाष्य को एडिट करें