अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 9
सूक्त - शुक्रः
देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः
छन्दः - चतुष्पदा पुरस्कृतिर्जगती
सूक्तम् - प्रतिसरमणि सूक्त
याः कृ॒त्या आ॑ङ्गिर॒सीर्याः कृ॒त्या आ॑सु॒रीर्याः कृ॒त्याः स्व॒यंकृ॑ता॒ या उ॑ चा॒न्येभि॒राभृ॑ताः। उ॒भयी॒स्ताः परा॑ यन्तु परा॒वतो॑ नव॒तिं ना॒व्या अति॑ ॥
स्वर सहित पद पाठया: । कृ॒त्या: । आ॒ङ्गि॒र॒सी: । या: । कृ॒त्या: । आ॒सु॒री: । या:। कृ॒त्या: । स्व॒यम्ऽकृता॑: । या: । ऊं॒ इति॑ । च॒ । अ॒न्येभि॑: । आऽभृ॑ता: । उ॒भयी॑: । ता: । परा॑ । य॒न्तु॒ । प॒रा॒ऽवत॑: । न॒व॒तिम् । ना॒व्या᳡: । अति॑ ॥५.९॥
स्वर रहित मन्त्र
याः कृत्या आङ्गिरसीर्याः कृत्या आसुरीर्याः कृत्याः स्वयंकृता या उ चान्येभिराभृताः। उभयीस्ताः परा यन्तु परावतो नवतिं नाव्या अति ॥
स्वर रहित पद पाठया: । कृत्या: । आङ्गिरसी: । या: । कृत्या: । आसुरी: । या:। कृत्या: । स्वयम्ऽकृता: । या: । ऊं इति । च । अन्येभि: । आऽभृता: । उभयी: । ता: । परा । यन्तु । पराऽवत: । नवतिम् । नाव्या: । अति ॥५.९॥
अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 9
विषय - शत्रुनाशक सेनापति की नियुक्ति।
भावार्थ -
(याः) जो (कृत्याः) जन संहारकारी क्रियाएं (आङ्गिरसीः) आङ्गिरस वेद, अथर्ववेद के विद्वान् वैज्ञानिकों द्वारा बतलाई जाती हैं, और (याः कृत्याः आसुरीः) जो बलवान्, शक्तिशाली पुरुषों द्वारा संहारकारी क्रियाएं की जाती हैं, (याः कृत्याः) जो हिंसाकारी कार्य (स्वयंकृताः) प्रजा अपने आप कर लेती है, और (या उ) जो (अन्येभिः) अन्य, शत्रु लोगों द्वारा (आमृताः) लाई जाती है, (ताः) वे (उभयीः) दोनों प्रकार की दैवी और मानुषी विपत्तियां (परावतः) दूर (नवतिं नाव्याः अति) ९० नदियों को पार करके (परा यन्तु) दूर चली जावें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शुक्र ऋषिः। कृत्यादूषणमुत मन्त्रोक्ता देवताः। १, ६, उपरिष्टाद् बृहती। २ त्रिपाद विराड् गायत्री। ३ चतुष्पाद् भुरिग् जगती। ७, ८ ककुम्मत्यौ। ५ संस्तारपंक्तिर्भुरिक्। ९ पुरस्कृतिर्जगती। १० त्रिष्टुप्। २१ विराटत्रिष्टुप्। ११ पथ्या पंक्तिः। १२, १३, १६-१८ अनुष्टुप्। १४ त्र्यवसाना षट्पदा जगती। १५ पुरस्ताद बृहती। १३ जगतीगर्भा त्रिष्टुप्। २० विराड् गर्भा आस्तारपंक्तिः। २२ त्र्यवसाना सप्तपदा विराड् गर्भा भुरिक् शक्वरी। द्वाविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें