Loading...
ऋग्वेद मण्डल - 1 के सूक्त 128 के मन्त्र
1 2 3 4 5 6 7 8
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 128/ मन्त्र 3
    ऋषि: - परुच्छेपो दैवोदासिः देवता - अग्निः छन्दः - विराडत्यष्टिः स्वरः - गान्धारः

    एवे॑न स॒द्यः पर्ये॑ति॒ पार्थि॑वं मुहु॒र्गी रेतो॑ वृष॒भः कनि॑क्रद॒द्दध॒द्रेत॒: कनि॑क्रदत्। श॒तं चक्षा॑णो अ॒क्षभि॑र्दे॒वो वने॑षु तु॒र्वणि॑:। सदो॒ दधा॑न॒ उप॑रेषु॒ सानु॑ष्व॒ग्निः परे॑षु॒ सानु॑षु ॥

    स्वर सहित पद पाठ

    एवे॑न । स॒द्यः । परि॑ । ए॒ति॒ । पार्थि॑वम् । मु॒हुः॒ऽगीः । रेतः॑ । वृ॒ष॒भः । कनि॑क्रदत् । दधत् । रेतः॑ । कनि॑क्रदत् । श॒तम् । चक्षा॑णः । अ॒क्षऽभिः॑ । दे॒वः । वने॑षु । तु॒र्वणिः॑ । सदः॑ । दधा॑नः । उप॑रेषु । सानु॑षु । अ॒ग्निः । परे॑षु । सानु॑षु ॥


    स्वर रहित मन्त्र

    एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वृषभः कनिक्रदद्दधद्रेत: कनिक्रदत्। शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणि:। सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु ॥

    स्वर रहित पद पाठ

    एवेन। सद्यः। परि। एति। पार्थिवम्। मुहुःऽगीः। रेतः। वृषभः। कनिक्रदत्। दधत्। रेतः। कनिक्रदत्। शतम्। चक्षाणः। अक्षऽभिः। देवः। वनेषु। तुर्वणिः। सदः। दधानः। उपरेषु। सानुषु। अग्निः। परेषु। सानुषु ॥ १.१२८.३

    ऋग्वेद - मण्डल » 1; सूक्त » 128; मन्त्र » 3
    अष्टक » 2; अध्याय » 1; वर्ग » 14; मन्त्र » 3
    Acknowledgment

    संस्कृत (1)

    विषयः

    पुनस्तमेव विषयमाह ।

    अन्वयः

    हे विद्वांस्त्वं यथा मुहुर्गी रेतः कनिक्रददिव रेतः कनिक्रदद्दधद्वृषभो वनेषु तुर्वणिर्देव उपरेषु सानुषु परेषु सानुषु च सदो दधानोऽग्निरेवेन पार्थिवं सद्यः पर्येति तथाऽक्षभिः शतं चक्षाणो भव ॥ ३ ॥

    पदार्थः

    (एवेन) गमनेन (सद्यः) शीघ्रम् (परि) सर्वतः (एति) प्राप्नोति (पार्थिवम्) पृथिव्यां विदितम् (मुहुर्गीः) मुहुर्मुहुर्गिरं प्राप्तः (रेतः) जलम् (वृषभः) वर्षकः (कनिक्रदत्) भृशं शब्दयन् (दधत्) धरन् (रेतः) वीर्यम् (कनिक्रदत्) अत्यन्तं शब्दयन् (शतम्) असंख्यातानुपदेशान् (चक्षाणः) उपदिशन् (अक्षभिः) इन्द्रियैः (देवः) देदीप्यमानः (वनेषु) रश्मिषु (तुर्वणिः) तमः शीतं हिंसन् (सदः) सीदन्ति येषु तान् (दधानः) धरन् (उपरेषु) मेघेषु (सानुषु) विभक्तेषु शिखरेषु (अग्निः) विद्युत्सूर्यरूपः (परेषु) उत्कृष्टेषु (सानुषु) शैलशिखरेषु ॥ ३ ॥

    भावार्थः

    अत्र वाचकलुप्तोपमालङ्कारः। यथा सूर्यो वायुश्च सर्वं धृत्वा मेघं वर्षयित्वा सर्वं जगदानन्दयति तथा विद्वांसो वेदविद्यां धृत्वाऽन्येषामात्मसूपदेशान् वर्षयित्वा सर्वान् मनुष्यान् सुखयन्ति ॥ ३ ॥

    हिन्दी (1)

    विषय

    फिर उसी विषय को अगले मन्त्र में कहा है ।

    पदार्थ

    हे विद्वान् ! आप जैसे (मुहुर्गीः) बार-बार वाणी को प्राप्त (रेतः) जल को (कनिक्रदत्) निरन्तर गर्जाता सा (रेतः) पराक्रम को (कनिक्रदत्) अतीव शब्दायमान करता और (दधत्) धारण करता हुआ (वृषभः) वर्षा करने और (वनेषु) किरणों में (तुर्वणिः) अन्धकार और शीत का विनाश करता हुआ (देवः) निरन्तर प्रकाशमान (उपरेषु) मेघों और (सानुषु) अलग अलग पर्वत के शिखरों वा (परेषु) उत्तम (सानुषु) पर्वतों के शिखरों में (सदः) जिनमें जन बैठते हैं, उन स्थानों को (दधानः) धारण करता हुआ (अग्निः) बिजुली तथा सूर्यरूप अग्नि (एवेन) अपनी लपट-झपट चाल से (पार्थिवम्) पृथिवी में जाने हुए पदार्थ को (सद्यः) शीघ्र (पर्येति) सब ओर से प्राप्त होता वैसे (अक्षभिः) इन्द्रियों से (शतम्) सैकड़ों उपदेशों को (चक्षाणः) करनेवाले होते हुए प्रसिद्ध हूजिये ॥ ३ ॥

    भावार्थ

    इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सूर्य और वायु सबको धारण और मेघ को वर्षाकर सब जगत् का आनन्द करते, वैसे विद्वान् जन वेद विद्या को धारण कर औरों के आत्माओं में अपने उपदेशों को वर्षा कर सब मनुष्यों को सुख देते हैं ॥ ३ ॥

    मराठी (1)

    भावार्थ

    या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे सूर्य व वायू सर्वांना धारण करून मेघाचा वर्षाव करून संपूर्ण जगात आनंद पसरवितात तसे विद्वान लोक वेद विद्या धारण करून इतरांच्या आत्म्यात आपल्या उपदेशांचा वर्षाव करून सर्व माणसांना सुख देतात. ॥ ३ ॥

    English (1)

    Meaning

    Agni, lord of light, constantly goes by his path, pervading all that is in the world, celebrated in the voices of the divines, life of life, generous shower of vitality, roaring, wielding life and still roaring. The lord of brilliance, breaking and building in waves of energy, watching and illuminating the worlds with a hundred lights, holding, wielding and supporting the homes of life in the clouds, over the peaks, in the farthest regions of space on top, he goes on and on in the orbit along the circumference.

    Top