Loading...
यजुर्वेद अध्याय - 1

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 1/ मन्त्र 26
    ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः देवता - सविता देवता छन्दः - स्वराट् ब्राह्मी पङ्क्ति,भुरिक् ब्राह्मी पङ्क्ति, स्वरः - पञ्चमः
    172

    अपा॒ररुं॑ पृथि॒व्यै दे॑व॒यज॑नाद्वध्यासं व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्या श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्विष्मस्तमतो॒ मा मौ॑क्। अर॑रो॒ दिवं॒ मा प॑प्तो द्र॒प्सस्ते॒ द्यां मा स्क॑न् व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्या श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क्॥२६॥

    स्वर सहित पद पाठ

    अप॑। अ॒ररु॑म्। पृ॒थि॒व्यै। दे॒व॒यज॑ना॒दिति॑ देव॒ऽयज॑नात्। व॒ध्या॒स॒म्। व्र॒जम्। ग॒च्छ॒। गो॒ष्ठान॑म्। गो॒स्थान॒मिति गो॒ऽस्थान॑म्। व॑र्षतु। ते॒। द्यौः। ब॒धा॒न। दे॒व॒। स॒वि॒त॒रिति सवितः। प॒र॒म्। अस्या॑म्। पृ॒थि॒व्याम्। श॒तेन॑। पाशैः॑। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। तम्। अतः॑। मा। मौ॒क्। अर॑रो॒ऽइत्यर॑रो। दिव॑म्। मा। प॒प्तः॒। द्र॒प्सः। ते॒। द्याम्। मा। स्क॒न्। व्र॒जम्। ग॒च्छ॒। गो॒ष्ठान॑म्। गो॒स्थान॒मिति गो॒ऽस्थान॑म्। व॑र्षतु। ते॒। द्यौः। ब॒धा॒न। दे॒व॒। स॒वि॒त॒रिति॑ सवितः। प॒र॒मस्या॑म्। पृ॒थि॒व्याम्। श॒तेन॑। पाशैः॑। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। तम्। अतः॑। मा। मौ॒क् ॥२६॥


    स्वर रहित मन्त्र

    अपाररुम्पृथिव्यै देवयजनाद्बध्यासँव्रजङ्गच्छ गोष्ठानँवर्षतु ते द्यौर्बधान देव सवितः परमस्याम्पृथिव्याँ शतेन पाशैर्या स्मान्द्वेष्टि यञ्च वयन्द्विष्मस्तमतो मा मौक् । अररो दिवम्मा पप्तो द्रप्सस्ते द्याम्मा स्कन्व्रजङ्गच्छ गोष्ठानँवर्षतु ते द्यौर्बधान देव सवितः परमस्याम्पृथिव्याँ शतेन पाशैर्या स्मान्द्वेष्टि यञ्च वयन्द्विष्मस्तमतो मा मौक् ॥


    स्वर रहित पद पाठ

    अप। अररुम्। पृथिव्यै। देवयजनादिति देवऽयजनात्। वध्यासम्। व्रजम्। गच्छ। गोष्ठानम्। गोस्थानमिति गोऽस्थानम्। वर्षतु। ते। द्यौः। बधान। देव। सवितरिति सवितः। परम्। अस्याम्। पृथिव्याम्। शतेन। पाशैः। यः। अस्मान्। द्वेष्टि। यम्। च। वयम्। द्विष्मः। तम्। अतः। मा। मौक्। अररोऽइत्यररो। दिवम्। मा। पप्तः। द्रप्सः। ते। द्याम्। मा। स्कन्। व्रजम्। गच्छ। गोष्ठानम्। गोस्थानमिति गोऽस्थानम्। वर्षतु। ते। द्यौः। बधान। देव। सवितरिति सवितः। परमस्याम्। पृथिव्याम्। शतेन। पाशैः। यः। अस्मान्। द्वेष्टि। यम्। च। वयम्। द्विष्मः। तम्। अतः। मा। मौक्॥२६॥

    यजुर्वेद - अध्याय » 1; मन्त्र » 26
    Acknowledgment

    संस्कृत (2)

    विषयः

    पुनरेतेन यज्ञेन किं किं सिध्यतीत्युपदिश्यते॥

    अन्वयः

    हे देव सवितर्भवत्कृपया वयं परस्परं विद्यामेवेपदिशाम। यथायं सविता देवः सूर्य्यलोकोऽस्यां पृथिव्यां शतेन पाशैर्बन्धनहेतुभिः किरणैराकर्षणेन पृथिव्यादीन् सर्वान् पदार्थान् बध्नाति। तथैव त्वमपि दुष्टान् बद्ध्वा शुभगुणान् प्रकाशय। हे विद्वांसो यथाहं [पृथिव्यै] पृथिव्यां देवयजनादररुमपवध्यासं तथैव तं यूयमप्यपाघ्नत। यथाऽहं व्रजं गच्छामि तथैव त्वमप्येतं गच्छ। यथाहं गोष्ठानं वर्षामि तथैव भवानपि वर्षतु। यथा मम द्यौर्विद्याप्रकाशः सर्वान् प्राप्नोति तथैव ते तवापि प्राप्नोतु। यथाऽहं योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तं परमस्यां पृथिव्यां शतेन पाशैर्नित्यं बध्नामि कदाचित्तं न त्यजामि तथैव हे वीर! तं त्वमिमं बधान तं चातः कदाचिन्मा मौक्। योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तमतो बंधनात् कोऽपि मा मुञ्चतु॥ एवं च तं प्रति सर्व उपदिशन्तु। हे अररो! त्वं दिवं मा पप्तस्तथा ते तव द्रप्सो द्यां माऽस्कन्। हे सन्मार्गजिज्ञासो! यथाऽहं व्रजं सन्मार्गं गच्छामि तथैव त्वमप्येतं गच्छ। यथेयं द्यौर्गोष्ठानं वर्षति तथैवेश्वरो विद्वान् वा ते तव कामान् वर्षतु। यथायं सविता देवः सूर्य्यलोकोऽस्यां पृथिव्यां शतेन पाशैर्बन्धनहेतुभिः किरणैराकर्षणेन पृथिव्यादीन् सर्वान् पदार्थान् बध्नाति तथैव त्वमपि च पुनर्योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तं परं शत्रुमस्यां पृथिव्यां शतेन पाशैर्बधान। यथाऽहं तं द्वेष्टारं शत्रुं शतेन पाशैर्बद्ध्वा न कदाचिन्मुञ्चामि तथैव त्वमप्येनं सदा बधान कदाचिन्मा मौक्॥२६॥

    पदार्थः

    (अप) धात्वर्थे (अररुम्) असुरराक्षसस्वभावशत्रुम्। अर्त्तेररुः। (उणा॰४।७९) अनेन ऋधातोररुः प्रत्ययः (पृथिव्यै) पृथिव्याम्। अत्र सुपां सुलुग् [अष्टा॰७.१.३९] इति सप्तमीस्थाने चतुर्थी (देवयजनात्) देवा यजन्ति यस्मिन् तस्मात् (वध्यासम्) हन्याम् (व्रजम्) व्रजन्ति जानन्ति जना येन तं सत्सङ्गम् (गच्छ) प्राप्नुहि गच्छतु वा (गोष्ठानम्) गौर्वाणी तिष्ठति यस्मिन्नध्ययनाध्यापने तं व्यवहारम्। गौरिति वाङ्नामसु पठितम्। (निघं॰१।११) (वर्षतु) शब्दविद्याया वृष्टिं करोतु (ते) तव (द्यौः) विद्याप्रकाशः। दिवो द्योतनकर्मणामादित्यरश्मीनाम्। (निरु॰१३।२५) (बधान) बन्धय (देव) सर्वानन्दप्रदेश्वरव्यवहारहेतुर्वा (सवितः) सर्वेषु जीवेष्वन्तर्यामितया सत्यप्रेरकव्यवहारप्रेरणाहेतुर्वा (परम्) शत्रुभूतम् (अस्याम्) आधारभूतायाम् (पृथिव्याम्) बहुपदार्थप्रदायाम् (शतेन) बहुभिः (पाशैः) बन्धनैः (यः) मूर्खः (अस्मान्) विद्यारतप्रचारकान् (द्वेष्टि) अपप्रीणाति (यम्) विद्याविरोधिनम् (च) पुनरर्थे (वयम्) विद्वांसः (द्विष्मः) अपप्रीणीमः (तम्) पूर्वोक्तं विद्याशत्रुम् (अतः) अस्माद् बन्धनादुपदेशाद्वा (मा) निषेधार्थे (मौक्) त्यज (अररो) दुष्टमनुष्य (दिवम्) प्रकाशम् (मा) निषेधार्थे (पप्तः) पततु। अत्र लोडर्थे लुङ् (द्रप्सः) हर्षकारी रसः। ‘दृप हर्षणमोहनयोः’ इत्यस्मादौणादिकः ‘सः’ प्रत्ययः। अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्। (अष्टा॰६।१।५९) अनेनामागमः (ते) तव तस्याः पृथिव्या वा (द्याम्) आनन्दम्। दिवु धातोर्बाहुलकाड्डोप्रत्ययष्टिलोपे प्राप्ते वकारलोपश्च (मा) निषेधार्थे (स्कन्) निस्सारयतु। अत्र लोडर्थे लङ्। बहुलं छन्दसि [अष्टा॰२.४.७३] इति शपो लुक् (व्रजम्) व्रजन्ति विद्वांसो यस्मिन् सन्मार्गे तम् (गच्छ) गच्छतु गमय वा (गोष्ठानम्) गौः पृथिवी तिष्ठति यस्मिन् तदन्तरिक्षम् (वर्षतु) सिञ्चतु (ते) तव (द्यौः) कान्तिः। द्यौर्वै सर्वेषां देवानामायतनम्। (शत॰१४।३।२।८) (बधान) बध्नाति वा पक्षे व्यत्ययः (देव) विजयप्रदविजयहेतुर्वा (सवितः) सर्वोत्पादकव्यवहारोत्पत्तिहेतुर्वा (परम्) शत्रुम् (अस्याम्) सर्वबीजारोपणार्थायाम् (पृथिव्याम्) बहुप्रजायुक्तायाम् (शतेन) बहुभिः (पाशैः) सामदामदण्डभेदादिकर्मभिः (यः) न्यायविरोधी (अस्मान्) न्यायाधीशान् (द्वेष्टि) कोपयति (यम्) अन्यायकारिणम् (च) पुनरर्थे (वयम्) सर्वहितसंपादिनः (द्विष्मः) कोपयामः (तम्) अधर्मप्रियम् (अतः) शिक्षणात् (मा) निषेधे (मौक्) त्यजतु॥ अयं मन्त्रः (शत॰१।२।४।१७-२१) व्याख्यातः॥२६॥

    भावार्थः

    अत्र लुप्तोपमालङ्कारः। ईश्वर आज्ञापयति हे मनुष्या! युष्माभिर्विद्वत्कार्य्यानुष्ठाने विघ्नकारिणो दुष्टाः प्राणिनः सदाऽपहन्तव्याः। सत्समागमेन विद्यावृद्धिर्नित्यं कार्य्या। यथाऽनेकोपायैः श्रेष्ठानां हानिर्दुष्टानां च वृद्धिर्न स्यात् तथैवानुष्ठेयम्। सदा श्रेष्ठाः सत्कार्य्या दुष्टास्ताडनीया बन्धनीयाश्च। परस्परं प्रीत्या विद्याशरीरबलं संपाद्य क्रियया कलायन्त्रैरनेकानि यानानि रचयित्वा सर्वेभ्यः सुखं देयं निरन्तरमीश्वरस्याज्ञापालनं (कर्तव्यम्) स एवोपासनीयश्चेति॥२६॥

    इस भाष्य को एडिट करें

    विषयः

    पुनरेतेन यज्ञेन किं किं सिध्यतीत्युपदिश्यते॥

    सपदार्थान्वयः

    हे देव ! सर्वानन्दप्रदेश्वर ! सवितः ! सर्वेषु जीवेष्वन्तर्यामितया सत्यप्रेरक ! भवत्कृपया वयं विद्वांसः परस्परं विद्यामेवोपदिशामः

    यथाऽयं सविता व्यवहारोत्पत्तिहेतु: देवः=सूर्यलोको विजयहेतुः अस्याम् आधारभूतायां पृथिव्यां बहुपदार्थप्रदायां शतेन बहुभिः पाशैः=बन्धनहेतुभिः किरणैराकर्षणेन पृथिव्यादीन् सर्वान् पदार्थान् बध्नाति, तथैव त्वमपि दुष्टान् बद्ध्वा शुभगुणान् प्रकाशय।

    १. हे विद्वांसः ! यथाऽहं [पृथिव्यै]=पृथिव्यां बहुपदार्थप्रदायां देवयजनात् देवा यजन्ति यस्मिन् तस्माद् अररुम् असुरराक्षसस्वभावशत्रुम् अपवध्यासं हन्याम, तथैव तं पूर्वोक्तं विद्याशत्रुं यूयमपि अपाघ्नत

    २. यथाऽहं व्रजं व्रजन्ति=जानन्ति जना येन तं सत्सङ्गं गच्छामि, तथैव त्वमप्येतं गच्छ प्राप्नुहि ।

    ३. यथाऽहं गोष्ठानं गौर्वाणी तिष्ठति यस्मिन्नध्ययनाऽध्यापने तं व्यवहारं वर्षामि तथैव भवानपि वर्षतु शब्दविद्याया वृष्टिं करोतु ।

    ४. यथा मम द्यौः=विद्याप्रकाशः सर्वान् प्राप्नोति तथैव ते=तवापि प्राप्नोतु ।

    ५. यथाऽहं यो मूर्खो अस्मान् विद्यारतप्रचारकान् द्वेष्टि अपप्रीणाति, यं विद्याविरोधिनं च वयं विद्वांसो द्विष्मः अपप्रीणीमः, तं पूर्वोक्तं परं विद्याशत्रुम् अस्याम् (अ)सर्वबीजारोपणाऽर्थायां पृथिव्यां बहुप्रजायुक्तायां शतेन बहुभिः पाशैः सामदामदण्डभेदादिकर्मभिः नित्यं बध्नामि, कदाचित्तं पूर्वोक्तं न त्यजामि, तथैव हे वीर ! तं पूर्वोक्तं शत्रुं त्वमिमं बधान बन्धय, तं चातः अस्माद्बन्धनादुपदेशाद्वा कदाचित् मा न मौक् त्यज ।

    यो मूर्खः अस्मान् विद्यारतप्रचारकान् द्वेष्टि अपप्रीणाति, यं विद्याविरोधिनं च वयं विद्वांसो द्विष्मः अपप्रीणामः तं पूर्वोक्तं विद्याशत्रुं अतः=बन्धनाद् अस्मादुपदेशाद् वा कोऽपि मा मुञ्चतु।=एवं च तं प्रति सर्व उपदिशन्तु--

    हे अररो ! दुष्टमनुष्य ! त्वं दिवं प्रकाशं मा न पप्तः पततु, तथा ते=तव तस्याः पृथिव्या वा द्रप्सः हर्षकारी रसो द्याम् आनन्दं मा न स्कन् निस्सारयतु ।

    हे सन्मार्गजिज्ञासो ! यथाऽहं व्रजम्=सन्मार्गं व्रजन्ति विद्वांसो यस्मिन्सन्मार्गं तं गच्छामि, तथैव त्वमप्येतं गच्छ गमय ।

    १. यथेयं द्यौः कान्तिः गोष्ठानं गौः पृथिवी तिष्ठति यस्मिंस्तदन्तरिक्षं वर्षति, तथैवेश्वरो विद्वान् वा ते व कामान् वर्षतु सिञ्चतु ।

     

    २. यथाऽयं सविता व्यवहारोत्पत्तिहेतुः देवः- सूर्यलोको विजयहेतुः अस्यां सर्वबीजारोपणार्थायां पृथिव्यां बहुप्रजायुक्तायां शतेन बहुभिः पाशः= बन्धनहेतुभिः किरणैराकर्षणेन पृथिव्यादीन् सर्वान् पदार्थान् बध्नाति, तथैव त्वमपि चपुनर्यो न्याय- विरोधी अस्मान् न्यायाधीशान द्वेष्टि कोपयति, यम् अन्यायकारिणं च वयं सर्वहितसम्पादिनो द्विष्मः कोपयामः, तम् अधर्मप्रियं परम् शत्रु शत्रुभूतम् अस्यान् अाधारभूतायां पृथिव्यां बहुपदार्थप्रदायां शतेन बहुभिः पाशैः सामदामदण्डभेदादिकर्मभिः बधान बन्धय।

     

    ३. यथाऽहं तम्=द्वेष्टारं शत्रुं शतेन बहुभिः पाशैः बन्धनैः बद्ध्वा न कदाचिन्मुञ्चामि, तथैव त्वमप्येतं सदा बधान बन्धय, अतः शिक्षणात् कदाचिन्मामौक् त्यजतु ॥ १।२६॥

    पदार्थः

    (अप) धात्वर्थे (अररुम्) असुरराक्षसस्वभावशत्रुम् । अर्तेररुः ॥ उ० ४। ७९॥ अनेन ऋधातोररुः प्रत्ययः (पृथिव्यै) पृथिव्याम् । अत्र सुपां सुलुगिति सप्तमीस्थाने चतुर्थी (देवयजनात्) देवा यजन्ति यस्मिन् तस्मात् (वध्यासम्) हन्याम् (व्रजम्) व्रजन्ति=जानन्ति जना येन तं सत्संगम् (गच्छ) प्राप्नुहि गच्छतु वा (गोष्ठानम्) गौर्वाणी तिष्ठति यस्मिन्नध्ययनाध्यापने तं व्यवहारम् । गौरिति वाङ्नामसु पठितम् ॥निघं० १ । ११ ॥ (वर्षतु) शब्दविद्याया वृष्टिं करोतु (ते) तव (द्यौः) विद्याप्रकाशः। दिवो द्योतनकर्मणामादित्यरश्मीनाम् ॥ निरु० १३ । २५ ॥ (बधान) बन्धय (देव) सर्वानन्दप्रदेश्वरव्यवहारहेतुर्वा (सवितः) सर्वेषु जीवेष्वन्तर्यामितया सत्यप्रेरकव्यवहारप्रेरणाहेतुर्वा (परम्) शत्रुभूतम् (अस्याम्) आधारभूतायाम् (पृथिव्याम्) बहुपदार्थप्रदायाम् (शतेन) बहुभिः (पाशैः) बन्धनैः (यः) मूर्खः (अस्मान्) विद्यारतप्रचारकान् (द्वेष्टि) अपप्रीणाति (यम्) विद्याविरोधिनम् (च) पुनरर्थे (वयम्) विद्वांसः (द्विष्मः) अपप्रीणीमः (तम्) पूर्वोक्तं विद्याशत्रुम् (अतः) अस्माद्बन्धनादुपदेशाद्वा (मा) निषेधार्थे (मौक्) त्यज (अररो) दुष्टमनुष्य (दिवम्) प्रकाशम् (मा) निषेधार्थे (पप्तः) पततु । अत्र लोडर्थे लुङ् (द्रप्सः) हर्षकारी रसः । दृप हर्षणमोहनयोरित्यस्मादौणादिकः सः प्रत्ययःअनुदात्तस्य चर्दुपधस्यान्यतरस्याम्, अ० ६।१।५९ ॥ अनेनामागमः (ते) तव तस्याः पृथिव्या वा (द्याम्) आनन्दम्। दिवुधातोर्बाहुलकाड्डोप्रत्ययष्टिलोपे प्राप्ते वकारलोपश्च (मा) निषेधार्थे (स्कन्) निस्सारयतु । अत्र लोडर्थे लङ् । बहुलं छन्दसीति शपो लुक् (व्रजम्) व्रजन्ति विद्वांसो यस्मिन्सन्मार्गे तम् (गच्छ) गच्छतु गमय वा (गोष्टानम्) गौः पृथिवी तिष्ठति यस्मिन् तदन्तरिक्षम् (वर्षतु) सिंचतु (ते) तव (द्यौः) कान्तिः । द्यौर्वै सर्वेषां देवानामायतनम् ॥ श० १४ । ३ । २ । ८ ॥ (बधान) बध्नाति वा पक्षे व्यत्ययः (देव) विजयप्रदविजयहेतुर्वा (सवितः) सर्वोत्पादकव्यवहारोत्पत्तिहेतुर्वा (परम्) शत्रुम् (अस्याम्) सर्वबीजारोपणार्थायाम् (पृथिव्याम्) बहुप्रजायुक्तायाम् (शतेन) बहुभिः (पाशैः) सामदामदण्डभेदादिकर्मभिः (यः) न्यायविरोधी (अस्मान्) न्यायाधीशान् (द्वेष्टि) कोपयति (यम्) अन्यायकारिणम् (च) पुनरर्थे (वयम्) सर्वहितसंपादिनः (द्विष्मः) कोपयामः (तम्) अधर्मप्रियम् (अतः) शिक्षणात् (मा) निषेधे (मौक्) त्यजतु ॥ अयं मंत्रः श० १।२।४ ।१७२१ व्याख्यातः॥२६॥

    भावार्थः

    [हे विद्वांसः! यथाऽहं [पृथिव्यै]=पृथिव्यां देवयजनादररुमपवध्यासं तथैव तं यूयमप्यपाघ्नत]

    अत्र लुप्तोपमालंकारः॥ ईश्वर आज्ञापयति--हे मनुष्याः! युष्माभिर्विद्वत्कार्यानुष्ठाने विघ्नकारिणो दुष्टाः प्राणिनः सदाऽपहन्तव्याः ।

    [यथाऽहं व्रजं गच्छामि, तथैव त्वमप्येतं गच्छ, यथाऽहं गोष्ठानं वर्षामि तथा भवानपि वर्षतु] सत्समागमेन विद्यावृद्धिर्नित्यं कार्या।

    [योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तं परमस्यां पृथिव्यां शतेन पाशैर्नित्यं बध्नामि]

    यथाऽनेकोपायैः श्रेष्ठानां हानिर्दुष्टानां च वृद्धिर्न स्यात् तथैवानुष्ठेयम् । सदा श्रेष्ठाः सत्कार्या दुष्टा- स्ताऽनीया बन्धनीयाश्च।

    [हे देव सवितः ! भवत्कृपया वयं परस्परं विद्यामेवोपदिशामः]

    परस्परं प्रीत्या विद्याशरीरबलं सम्पाद्य क्रियया कलायन्त्रैरनेकानि यानानि रचयित्वा सर्वेभ्यः सुखं देयं, निरन्तरमीश्वरस्याज्ञापालनं (कार्यं) स एवोपासनीयश्चेति ॥१।२६॥

    भावार्थ पदार्थः

    देवयजनात्=विद्वत्कार्यानुष्ठानात् । अररुम्=विघ्नकारिणं दुष्टप्राणिनम् । व्रजम् =सत्समागमम् । गोष्ठानम्=विद्यावृद्धिम् । शतेन=अनेकैः ।

     

    विशेषः

    परमेष्ठी प्रजापतिः । सविता=ईश्वरः, सूर्यश्च॥ पूर्वार्द्धे स्वराड्ब्राह्मी पंक्तिश्छन्दः, उत्तरार्धे भुरिग्ब्राह्मी पंक्तिश्छन्दः। पंचमः स्वरः॥

    इस भाष्य को एडिट करें

    हिन्दी (4)

    विषय

    फिर इस यज्ञ से क्या क्या कार्य सिद्ध होता है, इस विषय का उपदेश अगले मन्त्र में किया है॥

    पदार्थ

    हे (देव) सर्वानन्द के देने वाले जगदीश्वर! (सवितः) सब प्राणियों में अन्तर्यामी, सत्य प्रकाश करनेहारे आप की कृपा से हम लोग परस्पर उपदेश करें कि जैसे यह सब का प्रकाश करने वाला सूर्य्यलोक इस पृथिवी में अनेक बन्धन के हेतु किरणों से खींचकर पृथिवी आदि सब पदार्थों को बांधता है, वैसे तुम भी दुष्टों को बांधकर अच्छे-अच्छे गुणों का प्रकाश करो और जैसे मैं (पृथिव्यै) पृथिवी में (देवयजनात्) विद्वान् लोग जिस संग्राम से अच्छे-अच्छे पदार्थ वा उत्तम-उत्तम विद्वानों की सङ्गति को प्राप्त होते हैं, उस से (अररुम्) दुष्ट स्वभाव वाले शत्रुजन को (अपवध्यासम्) मारता हूं, वैसे ही तुम लोग भी उसको मारो तथा जैसे मैं (व्रजम्) उत्तम-उत्तम गुण जताने वाले सज्जनों के संग को प्राप्त होता हूं, वैसे तुम भी उसको (गच्छ) प्राप्त हो। जैसे मैं (गोष्ठानम्) पठन-पाठन व्यवहार को बताने वाली मेघ की गर्जना के समतुल्य वेदवाणी को अच्छे-अच्छे शब्दरूपी बूंदों से हर्षाता हूं, वैसे तुम भी (वर्षतु) वर्षाओ। जैसे मेरी विद्या की (द्यौः) शोभा सब को दृष्टिगोचर है, वैसे (ते) तुम्हारी भी विद्या सुशोभित हो। जैसे मैं (यः) जो मूर्ख (अस्मान्) विद्या का प्रचार करने वाले हम लोगों से (द्वेष्टि) विरोध करता है (च) और (यम्) जिस विद्याविरोधीजन को (वयम्) हम विद्वान् लोग (द्विष्मः) दुष्ट समझते हैं, (तम्) उस (परम्) विद्या के शत्रु को (अस्याम्) इस सब पदार्थों की धारण करने और विविध सुख देने वाली (पृथिव्याम्) पृथिवी में (शतेन) बहुत से (पाशैः) बन्धनों से नित्य बांधता हूं, कभी उससे उसको नहीं त्यागता, वैसे हे वीर लोगो! तुम भी उसको (बधान) बांधो, कभी उसको (अतः) उस बन्धन से (मा मौक्) मत छोड़ो और जो दुष्ट जन हम लोगों से विरोध करें तथा जिस दुष्ट से हम लोग विरोध करें, उसको उस बन्धन से कोई मनुष्य न छोड़े। इस प्रकार सब लोग उसको उपदेश करते रहें कि हे (अररो) दुष्टपुरुष! तू (दिवम्) प्रकाश उन्नति को (मा पप्तः) मत प्राप्त हो तथा (ते) तेरा (द्रप्सः) आनन्द देने वाला विद्यारूपी रस (द्याम्) आनन्द को (मा स्कन्) मत प्राप्त करे। हे श्रेष्ठों के मार्ग चाहने वाले मनुष्यो! जैसे मैं (व्रजम्) विद्वानों के प्राप्त होने योग्य श्रेष्ठ मार्ग को प्राप्त होता हूं, वैसे तुम भी (गच्छ) उसको प्राप्त हो। जैसे यह (द्यौः) सूर्य का प्रकाश (गोष्ठानम्) पृथिवी का स्थान अन्तरिक्ष को सींचता है, वैसे ही ईश्वर वा विद्वान् पुरुष (ते) तुम्हारी कामनाओं को (वर्षतु) वर्षावें अर्थात् क्रम से पूरी करें। जैसे यह (देव) व्यवहार का हेतु (सवितः) सूर्य्यलोक (अस्याम्) इस बीज बोने योग्य (पृथिव्याम्) बहुत प्रजायुक्त पृथिवी में (शतेन) अनेक (पाशैः) बन्धन के हेतु किरणों से आकर्षण के साथ पृथिवी आदि सब पदार्थों को बांधता है, वैसे तुम भी दुष्टों को बाँधो और (यः) जो न्यायविरोधी (अस्मान्) न्यायाधीश हम लोगों से (द्वेष्टि) कोप करता है (च) और (यम्) अन्यायकारी जन पर (वयम्) सम्पूर्ण हितसम्पादन करने वाले हम लोग (द्विष्मः) कोप करते हैं, (तम्) उस (परम्) शत्रु को (अस्याम्) इस (पृथिव्याम्) उक्त गुण वाली पृथिवी में (शतेन) अनेक (पाशैः) साम, दाम, दण्ड और भेद आदि उद्योगों से बाँधता हूं और जैसे मैं उसको उस दण्ड से बाँधकर कभी नहीं छोड़ता, वैसे ही तुम भी (बधान) बाँधो अर्थात् बन्धनरूप दण्ड सदा दो। (अतः) उसको कभी (मा मौक्) मत छोड़ो॥२६॥

    भावार्थ

    इस मन्त्र में लुप्तोपमालङ्कार है। ईश्वर आज्ञा देता है कि हे मनुष्यो! तुम लोगों को विद्या के सिद्ध करने वाले कार्य्यों के नियमों में विघ्नकारी दुष्ट जीवों को सदा मारना चाहिये और सज्जनों के समागम से विद्या की वृद्धि नित्य करनी चाहिये। जिस प्रकार अनेक उद्योगों से श्रेष्ठों की हानि दुष्टों की वृद्धि न हो सो नियम करना चाहिये और सदा श्रेष्ठ सज्जनों का सत्कार तथा दुष्टों को दण्ड देने के लिये उनका बन्धन करना चाहिये। परस्पर प्रीति के साथ विद्या और शरीर का बल सम्पादन करके क्रिया तथा कलायन्त्रों से अनेक यान बनाकर सब को सुख देना ईश्वर की आज्ञा का पालन तथा ईश्वर की उपासना करनी चाहिये॥२६॥

    इस भाष्य को एडिट करें

    विषय

    फिर इस यज्ञ से क्या-क्या कार्य सिद्ध होता है, इस विषय का उपदेश किया है

    भाषार्थ

    हे (देव) सब आनन्दों के दाता (सवितः) सब जीवों में अन्तर्यामी होकर सत्य प्रेरणा करने वाले ईश्वर! आपकी कृपा से (वयम्) हम विद्वान् लोग परस्पर विद्या का ही उपदेश करें।

    जैसे यह (सविता) सब व्यवहारों की उत्पत्ति का कारण (देवः) विजय दिलाने वाला सूर्यलोक (अस्याम्) इस आधारभूत [पृथिव्याम्] नाना पदार्थ देने वाली पृथिवी पर (शतेन) अनेक (परशैः) बन्धन कारक किरणों के द्वारा आकर्षण से पृथिवी आदि सब पदार्थों को बांधता है वैसे ही आप भी दुष्टों को बाँध कर शुभ गुणों को प्रकाशित करो।

    . हे विद्वान् पुरुषो! जैसे मैं [पृथिव्यै] नाना पदार्थ देने वाली इस पृथिवी पर (देवयजनात्) देवों की यज्ञशाला से (अररुम्) असुर तथा राक्षस स्वभाव वाले शत्रु को (अपवध्यासम्) दूर हटाता हूँ वैसे (तम्) उस पूर्वोक्त विद्या के शत्रु को (अपघ्नत) दूर हटाओ।

    . जैसे मैं (व्रजम्) ज्ञान प्राप्ति के साधन सत्संग में जाता हूँ वैसे तू भी इस सत्संग में (गच्छ) जा।

    .जैसे मैं (गोष्ठानम्) वाणी के निवास अध्ययन-अध्यापन रूप व्यवहार की वर्षा करता हूँ वैसे आप भी (वर्षतु) शब्द विद्या की वर्षा करो।

    4. जैसे मेरा (द्यौः) विद्या का प्रकाश सबको मिलता है वैसे (ते) तेरा भी विद्याप्रकाश सबको प्राप्त हो।

    . जैसे मैं--(यः) जो मूर्ख (अस्मान्) विद्या में रत रहने वाले प्रचारकों से (द्वेष्टि ) द्वेष करता है और (यम्) जिस विद्याविरोधी से (वयम्) हम विद्वान् लोग  (द्विष्मः) अप्रीति रखते हैं (तम्) उस (परम्) विद्याशत्रु को (अस्याम्) इन सब बीजों के आरोपण स्थान (पृथिव्याम्) बहुत प्रजा से युक्त पृथिवी पर (शतेन) अनेक (पाशैः) साम,दाम,दण्ड,भेद आदि कर्मों से नित्य बाँधता हूँ, और (तम्) उसे कभी नहीं छोड़ता वैसे ही हे वीर! (तम्) उस विद्या शत्रु को तू (बधान) बाँध और उसे (अतः) इस बन्धन वा उपदेश से कभी (मामौक्) मुक्त न कर।

    (यः) जो मूर्ख (अस्मान्) विद्या में रत रहते वाले हम प्रचारकों से (द्वेष्टि) द्वेष करता है और (यम्) जिस विद्याविरोधी से (वयम्) हम विद्वान् लोग (द्विष्मः) अप्रीति रखते हैं (तम्) उस विद्या को (अतः) इस बन्धन से वा उपदेश से कोई भी मुक्त न रखे। और इस प्रकारा उसे सब उपदेश करें

     हे (अररो) दुष्ट मुनष्य! तू (दिवम्) विद्या प्रकाश को (मा पप्तः) मत गिरा तथा (ते) तेरा अथवा इस पृथिवी का (द्रप्सः) हर्षकारक रस (द्याम्) आनन्द को (मा स्कन्) न निकलने दे।

    हे सन्मार्ग के जिज्ञासु पुरुष! जैसे मैं (व्रजम्) विद्वानों के चलने योग्य सन्मार्ग पर चलता हूँ। वैसे तू भी इस पर चल तथा अन्यों को चला ।

    . जैसे यह (द्यौः) प्रकाश (गोष्ठानम्) पृथिवी के निवासस्थान आकाश को अपनी वर्षा से पूर्ण करता है वैसे ईश्वर व विद्वान् (ते) तेरी कामनओं को (वर्षतु) पूर्ण करे।

    . जैसे यह (सविता) सब व्यवहारों की उत्पत्ति का कारण (देवः) विजय दिलाने वाला सूर्य लोक (अस्याम्) सब बीजों के आरोपण स्थान (पृथिव्याम्) बहुत प्रजा युक्त पृथिवी पर (शतेन) अनेक (पाशैः) बन्धन रूप किरणों के द्वारा आकर्षण से पृथिवी आदि सब पदार्थों को बांधता है वैसे तू भी (यः) जो न्याय-विरोधी (अस्मान्) हम न्यायाधीशों से (द्वेष्टि) कोप

    करना है () और (यम्) जिस अन्यायकारी से (वयम्) सब के हित साधक हम लोग (द्विष्मः) कोप रखते हैं (तम्) उस अधर्मप्रेमी (परम्) शत्रु को (अस्याम्) इस आधारभूत (पृथिव्याम्) बहुत पदार्थ देने वाली पृथिवी पर (शतेन) अनेक (पाशैः) साम, दाम, दण्ड, भेद आदि कर्मों से (बधान) बांध।

    . जैसे मैं (तम्) उस द्वेष करने वाले शत्रु को (शतेन) अनेक (पाशैः) बन्धनों से बांध कर कभी नहीं छोड़ता हूँ वैसे तू भी इसको सदा (बधान) बांध तथा उसे (अतः) शिक्षा से कभी (मा मौक्) मुक्त न कर॥१।२६॥

    भावार्थ

    इस मन्त्र में लुप्तोपमा अलंकार है॥ ईश्वर आज्ञा देता है कि हे मनुष्यो! तुम लोग विद्वानों के कार्य में विघ्न करने वाले दुष्ट प्राणियों को सदा दूर हटाओ।

    श्रेष्ठ विद्वानों के संग से नित्य विद्या की वृद्धि करो।

    जिस प्रकार से नाना उपायों से श्रेष्ठों की हानि और दुष्टों की वृद्धि न हो सके वैसा आचरण करो। सदा श्रेष्ठों का सत्कार और दुष्टों का ताड़न और बन्धन किया करो।

     परस्पर प्रीति से विद्या और शरीर के बल को सिद्ध करके, क्रिया के द्वारा कला यन्त्रों से अनेक यानों की रचना कर सब को सुख प्रदान करो, सदा ईश्वर की आज्ञा का पालन और उसी की उपासनर किया करो॥१।२६॥

    भाष्यसार

    . ईश्वर--सब आनन्दों को देने वाला होने से ईश्वर का नाम देवतथा सब जीवों में अन्तर्यामी रूप से सत्य का प्रेरक होने से सविताहै।

    . सूर्य--सब व्यवहारों का उत्पादक होने से सूर्य का नाम भी सवितातथा विजय प्रदाता होने से देवहै। यह पाश रूप किरणों के द्वारा आकर्षण शक्ति से पृथिवी आदि पदार्थों को बाँधता है।

    () सूर्य के दृष्टान्त से शिक्षा--

    () जैसे सूर्य इस पृथिवी के अन्धकार को नष्ट करता है वैसे राक्षस स्वभाव वाले विद्या के शत्रु दुष्ट लोगों का वध करो। () जैसे सूर्यव्रज=मेघ का संग करता है ऐसे सज्जनों का संग करो। वज्र() जैसे सूर्य पृथिवी पर वर्षा का हेतु है इस प्रकार अध्ययन-अध्यापन व्यवहार में विद्या की वर्षा करो। () जैसे सूर्य का प्रकाश सब को प्राप्त होता है वैसे विद्या का प्रकाश शूद्रादि सब के लिए प्राप्त करो। () जैसे सूर्य प्रकाश के विरोधी अन्धकार को नष्ट कर देता है इसी प्रकार विद्या प्रचारक विद्वान् लोगों का जो मूर्ख जन विरोध करते

    हैं उन विद्या शत्रुओं को साम,दाम,दण्ड,भेद आदि कर्मों से सदा वश में रखो। बन्धनमुक्त कभी न करो॥

    () इस मन्त्र में जैसे सूर्य के दृष्टान्त से शिक्षा ग्रहण करने का उल्लेख है इसी प्रकार विद्वानों से भी शिक्षा ग्रहण करने का उपदेश है। विद्वान् भी जनता के लिए सूर्य के समान अविद्या अन्धकार का नाश और विद्या का प्रकाश करने वाले हैं॥

    विशेष

    परमेष्ठी प्रजापतिः। सविता=ईश्वरः, सूर्यश्च।।  पुर्वार्द्धे स्वराड्ब्राह्मी पंक्तिश्छन्दः , उत्तरार्धे भुरिग्ब्राह्मी पंक्तिश्छन्दः। पंचत स्वरः।।

    इस भाष्य को एडिट करें

    विषय

    अदानवृत्ति का दूरीकरण

    पदार्थ

    १. सब यज्ञ दानशीलता से चलते हैं, अतः हम अदानशीलता को दूर करते हैं। सत्सङ्गति से जहाँ सुमनस्त्व की प्राप्ति की प्रार्थना है, वहाँ साथ ही दानकामश्च नो भुवत्, अथर्ववेद के इन शब्दों में यही कहा गया है कि हमारे सब व्यक्ति देने की इच्छावाले—इच्छापूर्वक दान देनेवाले हों। यजुर्वेद के शब्दों में आशीर्दा खूब उत्साह से, इच्छापूर्वक, दिल खोलकर देनेवाले हों और ( अररुम् ) = न देनेवाले को, कृपण मनोवृत्तिवाले को ( पृथिव्यै ) = इस पृथिवी पर [ पृथिव्यां, ङि = ङे ] होनेवाले ( देवयजनात् ) = देवों द्वारा किये जानेवाले यज्ञकर्मों से—सब भद्र पुरुषों के सामाजिक उत्सवों से ( अपवध्यासम् ) = दूर करता हूँ [ हन् गति ]। एक प्रकार से इनका सामाजिक बहिष्कार [ Social boycott ] करता हूँ। यह सामाजिक बहिष्कार सम्भवतः इनकी इस अदानवृत्ति को दूर करने में सहायक हो। सामाजिक बहिष्कार से भयभीत हुआ वह ( व्रजं गच्छ ) = सत्सङ्ग में जाए, जो ( सत्सङ्ग गोष्ठानम् ) = वेदवाणियों के प्रचार का स्थान बनता है। वहाँ सत्सङ्ग में ( ते ) = तेरे लिए ( द्यौः ) = ज्ञान का प्रकाश ( वर्षतु ) = ज्ञान की वर्षा करे। ( देव सवितः ) = हे प्रेरक देव! ( शतेन पाशैः ) = सैकड़ों बन्धनों से आप इस ( परमस्यां पृथिव्याम् ) = सत्सङ्ग की उत्कृष्ट भूमि में ( बधान ) = हमें बाँध दीजिए। हमें ही क्या, इस अदानशील पुरुष को भी ( यः अस्मान् द्वेष्टि ) = जो हमसे प्रीति नहीं करता और परिणामतः ( यम् ) = जिसे ( वयम् द्विष्मः ) = हम भी नहीं चाहते ( तम् ) = उस कृपण को भी ( अतः ) = इस ज्ञानोपदेश से ( मा मौक् ) = दूर मत कीजिए।

    २. ( अररुः ) = न देनेवाला ( दिवम् ) = स्वर्ग को ( मा पप्तः ) = [ पत् गतौ ] प्राप्त न हो। अदानशील को स्वर्ग कभी नहीं मिलता। इसका इहलोह नरक ही बना रहता है। दान ही यज्ञ की चरम सीमा है। यह दानरूप यज्ञ हमारे इस लोक को भी सुखी बनाता है और परलोक को भी। जो व्यक्ति दानशील बना रहता है, वह भोगप्रवण नहीं होता। भोगप्रवण न होने से उसके शरीर में सोमकण [ द्रप्सः = drops of soma ] सुरक्षित रहते हैं। ये सुरक्षित सोमकण इसकी ज्ञानाङ्गिन के ईंधन बनते हैं। इसका ज्ञान-सरोवर इन सोम-कणों की सुरक्षा से सूखता नहीं। बस, इस बात का ध्यान करते हुए सदा दिल खोलकर देनेवाला बनना। तेरी वृत्ति भोगवृत्ति न हो जाए और ( द्रप्सः ) = ये सुरक्षित सोमकण ( ते ) = तेरे ( द्याम् ) = इस मस्तिष्करूप द्युलोक को ( मा स्कन् ) = [ स्कन्दिर् = गतिशोषणयोः ] सूखने न दें। तेरा ज्ञान-समुद्र सदा ज्ञान-जल से परिपूर्ण रहे। इसके लिए तू ( व्रजं गच्छ ) = सत्सङ्ग को प्राप्त कर, उस सत्सङ्ग को जोकि ( गोष्ठानम् ) =  वेदवाणियों का स्थान है। यहाँ ( द्यौः ) = यह विद्याप्रकाश ( ते ) = तेरे लिए ( वर्षतु ) = ज्ञान की वर्षा करे। तेरी प्रार्थना यह हो कि हे ( सवितः देव ) = प्रेरक प्रभो! हमें ( शतेन पाशैः ) = सैकड़ों बन्धनों से ( परमस्यां पृथिव्याम् ) = सत्सङ्ग की इस उत्कृष्ट स्थली में ( बधान ) = बाँधिए। हमें ही क्या, ( यः ) = जो अस्मान् ( द्वेष्टि ) = हमसे द्वेष करता है ( च ) = और ( यं वयं द्विष्मः ) = जो हमारा अप्रिय बन गया है ( तम् ) = उसे भी ( अतः ) = इन सत्सङ्गों में होनेवाले उपदेशों से ( मा मौक् ) = मत वञ्चित कीजिए। हमारे शत्रुओं को भी इन सत्सङ्गों का सौभाग्य प्राप्त हो, जिससे वे वहाँ बरसनेवाले ज्ञान-जल से निर्मल होकर शत्रु ही न रहें और वे यज्ञों के महत्त्व को समझकर दानशील बन जाएँ।

    भावार्थ

    भावार्थ — कृपण का सामाजिक बहिष्कार करके उसकी अदानवृत्ति को दूर करने का प्रयत्न करना चाहिए। उसे यह समझाना चाहिए कि अदानवृत्ति का परिणाम नरक है, स्वर्ग तो यज्ञिय वृत्ति से ही बनता है।

    इस भाष्य को एडिट करें

    विषय

    राजा का पृथ्वी के प्रति कर्त्तव्य और दुष्टों का दमन ।

    भावार्थ

     ( पृथिव्यै) इस पृथिवी या पृथिवीवासिनी प्रजा के हित के लिये ( अररुंम् ) दुष्ट, हिंसकस्वभाव शत्रु को ( देवयजनात् ) देव- विद्वानों के यज्ञस्थान से ( अप बध्यासम् ) मैं क्षत्रिय पुरुष दूर मार भगाऊं । ( व्रजं गच्छ० इत्यादि) पूर्ववत् । हे (अररो प्रजापीड़क असुर पुरुष ! तू (दिवं) द्यौलोक, स्वर्ग या सुख को ( मा पप्तः ) मत प्राप्त कर । हे पृथिवि ! ( ते ) तेरा ( द्रप्सः ) उत्तम रस ( द्याम् ) आकाश की तरफ ( मा स्कन् ) शुष्क न हो । ( व्रजं गोष्ठानं गच्छ० इत्यादि) पूर्ववत् ॥

    टिप्पणी

    २६ – 'अपारसं बध्यासं पृथिव्यै देवयजनात् । व्रजं०' इति काण्व ० ।
     १ अपाररुं । २ अररो । 

    ऋषि | देवता | छन्द | स्वर

    असुरो वेदिः सविता च देवताः ( १ ) स्वराड् बाह्मी पंक्तिः ( २ ) भुरिक् ब्राह्मी
    पंक्तिः । पञ्चमः ॥

    इस भाष्य को एडिट करें

    मराठी (2)

    भावार्थ

    या मंत्रात लुप्तोपमालंकार आहे. ईश्वर अशी आज्ञा करतो की, हे माणसांनो, विद्येचा प्रसार करताना अडथळा आणणाऱ्या दुष्ट जीवांचा नाश केला पाहिजे आणि सज्जनांच्या संगतीत राहून सदैव विद्येची वृद्धी केली पाहिजे. श्रेष्ठांचे नुकसान व दुष्टांची वृद्धी होऊ नये यासाठी निरनिराळ्या प्रकारचे नियम बनविले पाहिजेत. नेहमी श्रेष्ठ सज्जनाचा सन्मान केला पाहिजे व दुष्टांना दंड देण्यासाठी त्यांना बंधनात ठेवले पाहिजे. परस्पर प्रेमाने विद्या व शरीरबल यांची वृद्धी करून अनेक कार्ये केली पाहिजेत. निरनिराळ्या यंत्रांनी युक्त याने तयार केली पाहिजेत आणि सर्वांना सुखी केले पाहिजे. याप्रमाणे ईश्वराच्या आज्ञेचे पालन करून त्याची उपासना केली पाहिजे.

    इस भाष्य को एडिट करें

    विषय

    या यज्ञामुळे कोणकोणते कार्य सिद्ध होतात, याविषयी पुढील मंत्रात उपदेश केला आहे -

    शब्दार्थ

    शब्दार्थ - हे (देव) सर्व आनन्द प्रदाता जगदीश्‍वरा, (सवितः) सर्व प्राण्यांत अंतर्यामी असणार्‍या आणि सत्याची प्रेरणा देणार्‍या परमेश्‍वरा, तुझ्या कृपेने आम्ही सर्व जणांनी एकमेकास असा हितोपदेश करावा की ज्याप्रमाणे सर्वांना प्रकाश देणारा हा सूर्य पृथिवीवर अनेक प्रकारची बंधनें (भ्रमण-व्यवस्ता) ठेऊन, आपल्या किरणांनी आकर्षित करून पृथ्वी आदी पदार्थांना बांधून ठेवतो, (एकत्र आणि एका निश्‍चित अवस्थेत ठेवतो), त्याप्रमाणे तुम्ही सर्वांनी दुष्टांना बंधनात जखडून ठेवावे आणि सत्य-सद्गुणाचा विस्तार करावा. ज्याप्रमाणे (पृथिव्यै) या पृथिवीवर (देवयजनात्) विद्वान जन युद्धादीद्वारे उत्तम पदार्थाची प्राप्ती करतात आणि उत्तम विद्वानांची संगती प्राप्त करतात, त्याप्रमाणे मी संग्रामाद्वारे (अरारं) दुष्ट स्वभाव असलेल्या शत्रूंचा (अपनध्यासम्) वध करतो, त्याप्रमाणे तुम्ही लोक देखील दुर्जनास मारा. जसे मी (व्रजं) उत्तम गुणिजनांचा सहवास प्राप्त करतो, तसे तुम्ही देखील सज्जनांकडे (गच्छ). तसेच पठन-पाठन आदीचे ज्ञान देणारी, मेघगर्जनेप्रमाणे शक्तियती अशी जी वेदवाणी आहे, मी त्या वेदवाणीचा उत्तमोत्तम शब्दरूप बिन्दूनी वृष्टी करीत असतो, त्याप्रमाणे तुम्ही देखील (वर्षतु) त्या वेदवाणीची वृष्टी (त्याचा उच्चार प्रचार करा) ज्याप्रमाणे माझ्या विद्येची (द्यौः) शोभा/महती सर्वांना दिसत आहे, त्याप्रमाणे (ते) तुमची विद्यादेखील सर्वत्र सुशोभित व्हावी. (यः) जो मूर्ख (अस्मान्) विद्येचा प्रचार करणार्‍या आम्हां लोकांचा (द्वेष्टि) विरोध करतो (च) आणि (यं) ज्या विद्येचा विरोध करणार्‍या मनुष्याला (वयं) आम्ही विद्वान जन (द्विष्मः) दुष्ट मानतो, (तं) त्या विद्येच्या शत्रूस मी (अस्यां) सर्व पदार्थांना धारण करणार्‍या (पृथिव्यां) विविध सुखकारिणी अशा पृथ्वीवर (शतेन) अनेक (पाशैः) बंधनांनी नित्य बांधतो, त्याला केव्हांही मुक्त असा सोडत नाही, त्याप्रमाणे हे वीरजनहो, तुम्ही दखील त्याला (बधान) बंधनात जखडून ठेवा. (अतः) त्या बंधनापासून (मा मौक्) त्याला सोडूं नका. जो दुष्ट माणूस आमचा विरोध करील आणि ज्या दुर्जनाचा आम्ही विरोध करत आहोत, त्याला त्या बंधनापासून इतर कोणीही सोडवू नये. त्या दुर्जनास सर्व लोकांनी कठोर शब्दात सांगावे की अरे (अरे) दुर्जना, (दिवं) कधीही तुझी उन्नती (मा पप्तः) होऊ नये. (दुष्टतेचा प्रसार होऊ नये) (ते) तुझ्या (द्रप्सः) आनन्ददायी विद्यारूप रसाची परिणीती (द्या) आनन्दात (मास्कान्) होऊ नये (म्हणजे तुला तुझ्या दुष्टतेमुले आनन्दाची प्राप्ती होऊ नये.) - श्रेष्ठ मार्गाची इच्छा करणार्‍या हे मनुष्यांनो, ज्याप्रमाणे की (व्रजं) विद्वज्जनांनी गमन करण्यास योग्य अशा श्रेष्ठ मार्गाचा अवलंब करीत आहे, तसे तुम्ही दखील (गच्छक) त्या मार्गावर जा. (द्यौः) सूर्याचा प्रकाश (गोष्ठानं) पृथिवी आणि अंतरिक्षाला सिंचित करतो, त्याप्रमाणेच परमेश्‍वर किंवा विद्वान जन तुमच्या कामना (वर्षतु) पूर्ण करोत. ज्याप्रमाणे (देवः) सर्व व्यवहारांना कारणीभूत ठरणारा (सवितः) हा सूर्य (अस्यां) या बीज-वपनास योग्य (प्रथिव्यां) ज्यावर अनेक प्राणी राहतात अशा पृथिवीवर (शतेन) अनेक (पाशैः) बंधनाचे साधन असलेल्या आपल्या किरणांनी व आकर्षणशक्तीद्वारे पृथिवी आदी सर्व पदार्थांना बांधून ठेवतो, तद्वत तुम्ही देखील दुष्टजनांना बांधा. (यः) जो कोणी न्यायाचा विरोध आहे की जो (अस्मान्) आम्हां न्यायशील जनांवर (द्वेष्टि) कोप करतो (च) आणि (यं) ज्या अन्यायकारी माणसावर (वयं) सर्वांचे हित करणारे आम्ही (द्विष्मः) कोप करतो (तं) त्या (परं) शत्रूला (अस्यां) या (पृथिव्यां) पूर्वोक्त गुणशालिनी पृथ्वीवर (शतेन) अनेक (पाशैः) साम, दाम, दंड, भेद आदी उपायांद्वारे वश करतो आणि ज्याप्रमाणे मी अशा दुष्टाला त्या दंडाशी बांधून कधीही मुक्त करीत नाहीं, त्याप्रमाणे तुम्ही देखील (बधान) त्याला बांधा म्हणजे त्याला नेहमी बंधन दंड द्या त्याला कधी (मा मौक्) सोडूं नका.

    भावार्थ

    भावार्थ - या मंत्रात लुप्तोपमालंकार आहे. ईश्‍वर आज्ञा करीत आहे की हे मनुष्यांनो, तुमच्या विद्या व ज्ञान प्राप्तीच्या मार्गात, कार्यसिद्धीच्या प्रयत्नात जे विघ्नकारी दुष्ट माणसें अडचण निर्माण करतील, त्या दुष्टांना तुम्ही नेहमी मारा. सज्जनांशी मैत्री व संगती करून विद्येची वृद्धी करा. ज्यामुळे श्रेष्ठजनांची हानी होणार नाही आणि दुष्टांची वृद्धी होणार नाही, असे नियम करा व असे करण्यासाठी त्या दुष्टांना बंधनात बांधून ठेवा. ईश्‍वराच्या या आदेशांचे पालन करीत परस्पर मोठ्या प्रेमाने विद्या आणि शारीरिक बल संपादित करा. विद्या आणि व्यवहार-क्रियांद्वारे तसे कलायंत्रादीने अनेक यानांचे निर्माण करून सर्वांना सुखी करणे, हेच ईश्‍वराच्या आज्ञेचे पालन आहे आणि या साठीच ईश्‍वराचीच उपासना केली पाहिजे.

    इस भाष्य को एडिट करें

    इंग्लिश (3)

    Meaning

    O Omnipresent Lord, the Giver of happiness, may we subjugate the wicked folk on this earth where the sages perform yajnas. May we associate with the learned and, thus spread freely the system of education as propounded in the Vedic hymns. Just as My light of knowledge is valued by all, so should yours. The ignorant moving in the dark who are opposed to the learned, and whom the learned disapprove for their antagonism to knowledge, should be brought round to the path of virtue by hundreds of means available and let the restriction on them be not removed till their enlightenment. May the wicked, be not blessed with prosperity, and the pleasure of knowledge. O Ye dutiful! may ye persistently follow the path of virtue. Just as the light of the sun brightens up the mid-region so does God fulfil our desires. The sun controls the earth by the force of gravitation, attracts it towards him, and maintains it in its proper place.

    इस भाष्य को एडिट करें

    Meaning

    I destroy the evil from the earth which is the holy seat of yajna. Go to the congregation for knowledge, and shower the rain of knowledge and light of heaven on the earth. Lord Savita of light and glory, who ever opposes our yajna and whoever we oppose, bind him with a hundred bonds and leave him not. The wicked must not stop the light of heaven. The bubbles of his drink must not vitiate the nectar. Keep going to the congregation, bring the light of heaven on earth.

    इस भाष्य को एडिट करें

    Translation

    May I drive away the devilish enemy from this earth, the place of divine worship. (1) Go to the pen, the cow-shed. (2) May heaven send rain for you. (3) O creator God, here on this earth bind with a hundred fetters the enemy, who is hostile to us and whom we hate. Don't you release him from the same. (4) О devilish enemy, may you not attain light and bliss. (5) May your progeny also be deprived of light and bliss. (6) Go to the pen, the cow-shed. (7) May heaven send rain for you. (8) О Creator God, here on this earth bind with a hundred fetters the enemy, who is hostile to us and whom we hate. Don't you release him from the same. (9)

    इस भाष्य को एडिट करें

    बंगाली (1)

    विषय

    পুনরেতেন য়জ্ঞেন কিং কিং সিধ্যতীত্যুপদিশ্যতে ॥
    পুনরায় এই যজ্ঞ দ্বারা কী কী কার্য্য সিদ্ধ হয়, এই বিষয়ের উপদেশ পরবর্ত্তী মন্ত্রে করা হইয়াছে ॥

    पदार्थ

    পদার্থঃ- হে সর্বানন্দ দাতা জগদীশ্বর ! (সবিতঃ) সর্ব প্রাণিদিগের অন্তর্য্যামী, সত্যপ্রকাশকারী, আপনার কৃপা বলে আমরা পরস্পর উপদেশ করি যে, যেমন এই সকলের প্রকাশকারী সূর্য্যলোক এই পৃথিবীতে অনেক বন্ধন হেতু কিরণ সকল দ্বারা আকৃষ্ট করিয়া পৃথিবী ইত্যাদি সব পদার্থকে বাঁধিয়া লয় সেইরূপ তোমরাও দুষ্টদিগকে বাঁধিয়া ভাল ভাল গুণের প্রকাশ কর এবং যেমন আমি (পৃথিব্যৈ) পৃথিবীতে (দেবয়জনাৎ) বিদ্বান্ লোকেরা যে সংগ্রাম হইতে ভাল ভাল পদার্থ অথবা উত্তমোত্তম বিদ্বান্দিগের সংগতি লাভ করেন তদ্দ্বারা (অররুম্) দুষ্ট স্বভাবযুক্ত শত্রুদিগকে (অপবধ্যাসম্) বধ করি সেইরূপ তোমরাও তাহাদিগকে বধ কর তথা যেমন আমি (ব্রজম্) উত্তমোত্তম গুণ প্রকাশকারী সজ্জনদিগের সঙ্গ প্রাপ্ত হইতেছি সেইরূপ তোমরাও উহা (গচ্ছ) প্রাপ্ত হও । যেমন আমি (গোষ্ঠানম্) পঠন-পাঠন ব্যবহার জ্ঞাপনকারী মেঘের গর্জন তুল্য বেদবাণীকে ভাল ভাল শব্দরূপী বিন্দু দ্বারা হরষিত করি সেইরূপ তোমরাও (বর্ষতু) বরিষণ কর । যেমন আমার বিদ্যার (দ্যৌঃ) শোভা সকলে দৃষ্টিগোচর করে সেইরূপ (তে) তোমাদিগেরও বিদ্যা সুশোভিত হউক । যেমন আমি (য়ঃ) যাহারা মূর্খ (অস্মান্) বিদ্যা প্রচারক আমাদিগের সহিত (দ্বেষ্টি) দ্বেষ করে (চ) এবং (য়ম্) যে বিদ্যাবিরোধীজনকে (বয়ম্) আমরা বিদ্বান্গণ (দ্বিষ্মঃ) দুষ্ট মনে করি (তম্) সেই (পরম্) বিদ্যার শত্রুকে (অস্যাম্) এই সব পদার্থের ধারণ করিবার এবং বিবিধ সুখ প্রদাতা (পৃথিব্যাম্) পৃথিবীতে (শতেন) বহু প্রকারে (পাশৈঃ) বন্ধন দিয়া নিত্য বাঁধি, কখনও তাহাকে মুক্ত করি না, সেইরূপ হে বীরগণ । তোমরা তাহাকে (বধান) বাঁধিয়া লহ, কখনও তাহাকে (অতঃ) সেই বন্ধন হইতে (মা মৌক্) মুক্ত করিও না এবং যে দুষ্ট ব্যক্তি আমাদের সহিত বিরোধিতা করে তথা যে দুষ্টের সহিত আমরা বিরোধিতা করি তাহাকে সেই বন্ধন হইতে কোন মনুষ্য মুক্ত করিবে না । এই প্রকার সকলে তাহাকে উপদেশ করিতে থাকিবে যে, হে (অররো) দুষ্টপুরুষ । তুমি (দিবম্) প্রকাশ উন্নতি (মা পপ্তঃ) প্রাপ্ত হইও না তথা (তে) তোমার (দ্রপ্সঃ) আনন্দদাতা বিদ্যারূপী রস (দ্যাম) আনন্দকে (মা স্কন্) প্রাপ্ত করিও না । হে শ্রেষ্ঠ পথগামী মনুষ্যগণ । যেমন আমি (ব্রজম্) বিদ্বান্দিগের প্রাপ্ত হওয়ার যোগ্য শ্রেষ্ঠ মার্গ প্রাপ্ত হই সেইরূপ তোমরাও (গচ্ছ) উহা প্রাপ্ত হও । যেমন এই (দ্যৌঃ) সূর্য্যের প্রকাশ (গৌষ্ঠানম্) পৃথিবীর স্থান অন্তরিক্ষের সেচন করে সেইরূপই ঈশ্বর বা বিদ্বান্ পুরুষ (তে) তোমার কামনাগুলিকে (বর্ষতু) বরিষণ করুন অর্থাৎ ক্রম সহ পূর্ণ করুন । যেমন এই (দেব) ব্যবহারের হেতু (সবিতঃ) সূর্য্যলোক (অস্যাম্) এই বীজ বপনের যোগ্য (পৃথিব্যাম্) বহু প্রজাযুক্ত পৃথিবীতে (শতেন) বহু (পাশৈঃ) বন্ধনের হেতু কিরণগুলির দ্বারা আকর্ষণ সহ পৃথিবী ইত্যাদি সব পদার্থকে বন্ধন করে সেইরূপ তোমরাও দুষ্টদিগকে বাঁধো এবং (য়ঃ) যে ন্যায়বিরোধী (অস্মান্) ন্যায়াধীশ আমাদের সহিত (দ্বেষ্টি) দ্বেষভাব পোষণ করে (চ) এবং (য়ম্) অন্যায়কারীর উপর (বয়ম্) সম্পূর্ণ হিতসম্পাদনকারী আমরা (দ্বিষ্মঃ) দ্বেষ করি (তম্) সেই (পরম্) শত্রুকে (অস্যাম্) এই (পৃথিব্যাম্) উক্ত গুণযুক্ত পৃথিবীতে (শতেন) বহু (পাশৈঃ) সাম, দাম, দন্ড ও ভেদাদি প্রচেষ্টার সহিত বাঁধি এবং যেমন আমি তাহাকে সেই দন্ড দিয়া বাঁধিয়া কখনও মুক্ত করি না সেইরূপ তোমরাও (বধান) বাঁধো অর্থাৎ বন্ধন রূপ দন্ড সর্বদা দাও । কখনও তাহাকে (মা মৌক) মুক্ত করিও না ॥ ২৬ ॥

    भावार्थ

    ভাবার্থঃ- এই মন্ত্রে লুপ্তোপমালংকার আছে । ঈশ্বর আজ্ঞা প্রদান করিতেছেন যে, হে মনুষ্যগণ ! তোমাদিগের বিদ্যার সিদ্ধকারী কার্য্যের নিয়মে বিঘ্নকারী দুষ্ট জীবকে সর্বদা হত্যা করা উচিত এবং সজ্জনদিগের সমাগম সহ বিদ্যার বৃদ্ধি নিত্য করা উচিত । যে প্রকার বহু প্রচেষ্টা দ্বারা শ্রেষ্ঠদিগের ক্ষতি, দুষ্টদিগের বৃদ্ধি না হয় ইহাই নিয়ম করা উচিত এবং সর্বদা শ্রেষ্ঠ সজ্জনদিগের আদর-যত্ন তথা দুষ্টদিগকে দন্ড দেওয়ার জন্য তাহাদেরকে বন্ধন করা উচিত । পরস্পর প্রীতি সহ বিদ্যা ও শরীরের বল সম্পাদন করিয়া ক্রিয়া ও কলাযন্ত্র দ্বারা অনেক মান রচনা করিয়া সকলকে সুখ প্রদান করা, ঈশ্বরের আজ্ঞা পালন তথা ঈশ্বরের উপাসনা করা উচিত ॥ ২৬ ॥

    मन्त्र (बांग्ला)

    অপা॒ররুং॑ পৃথি॒ব্যৈ দে॑ব॒য়জ॑নাদ্বধ্যাসং ব্র॒জং গ॑চ্ছ গো॒ষ্ঠানং॒ বর্ষ॑তু তে॒ দ্যৌর্ব॑ধা॒ন দে॑ব সবিতঃ পর॒মস্যাং॑ পৃথি॒ব্যাᳬं শ॒তেন॒ পাশৈ॒র্য়ো᳕ऽস্মান্দ্বেষ্টি॒ য়ং চ॑ ব॒য়ং দ্বি॒ষ্মস্তমতো॒ মা মৌ॑ক্ । অর॑রো॒ দিবং॒ মা প॑প্তো দ্র॒প্সস্তে॒ দ্যাং মা স্ক॑ন্ব্র॒জং গ॑চ্ছ গো॒ষ্ঠানং॒ বর্ষ॑তু তে॒ দ্যৌর্ব॑ধা॒ন দে॑ব সবিতঃ পর॒মস্যাং॑ পৃথি॒ব্যাᳬं শ॒তেন॒ পাশৈ॒র্য়ো᳕ऽস্মান্দ্বেষ্টি॒ য়ং চ॑ ব॒য়ং দ্বি॒ষ্মস্তমতো॒ মা মৌ॑ক্ ॥ ২৬ ॥

    ऋषि | देवता | छन्द | स्वर

    অপাররুমিত্যস্য সর্বস্য ঋষিঃ স এব । সবিতা দেবতা । পূর্বার্দ্ধে স্বরাড্ব্র্রাহ্মী পংক্তিশ্ছন্দঃ । উত্তরার্ধে ভুরিগ্ব্রাহ্মী পংক্তিশ্ছন্দঃ ।
    পঞ্চমঃ স্বরঃ ॥

    इस भाष्य को एडिट करें
    Top