अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 40/ मन्त्र 1
सूक्त - शुक्रः
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
69
ये पु॒रस्ता॒ज्जुह्व॑ति जातवेदः॒ प्राच्या॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान्। अ॒ग्निमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥
स्वर सहित पद पाठये । पु॒रस्ता॑त् । जुह्व॑ति । जात॒ऽवे॒द॒: । प्राच्या॑: । दि॒श: । अ॒भि॒ऽदास॑न्ति । अ॒स्मान् । अ॒ग्निम् । ऋ॒त्वा । ते । परा॑ञ्च: । व्य॒थ॒न्ता॒म् । प्र॒त्यक् । ए॒ना॒न् । प्र॒ति॒ऽस॒रेण॑ । ह॒न्मि॒ ॥४०.१॥
स्वर रहित मन्त्र
ये पुरस्ताज्जुह्वति जातवेदः प्राच्या दिशोऽभिदासन्त्यस्मान्। अग्निमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान्प्रतिसरेण हन्मि ॥
स्वर रहित पद पाठये । पुरस्तात् । जुह्वति । जातऽवेद: । प्राच्या: । दिश: । अभिऽदासन्ति । अस्मान् । अग्निम् । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण । हन्मि ॥४०.१॥
भाष्य भाग
हिन्दी (1)
विषय
शत्रु के नाश करने का उपदेश।
पदार्थ
(जातवेदः) हे ज्ञानवान् परमेश्वर ! (ये) जो लोग (पुरस्तात्) सन्मुख होकर (प्राच्याः) पूर्व वा सन्मुख (दिशः) दिशा से (अस्मान्) हमको (जुह्वति) खाते और (अभिदासन्ति) चढ़ाई करते हैं। (ते) वे (अग्निम्) [तुझ] सर्वव्यापक को (ऋत्वा) पाकर (पराञ्चः) पीठ देते हुए (व्यथन्ताम्) व्यथा में पड़ें। (एनान्) इनको (प्रतिसरेण) [तुझ] अग्रगामी के साथ (प्रत्यक्) उलटा (हन्मि) मैं मारता हूँ ॥१॥
भावार्थ
मनुष्य परमेश्वर में भक्ति करके पुरुषार्थपूर्वक अपने आत्मिक और शारीरिक शत्रुओं का नाश करें। ऐसा ही भाव अन्य मन्त्रों का समझो ॥१॥ इस सूक्त का मिलान अथर्व० ३।२६ तथा २७ से करो ॥
टिप्पणी
१−(ये) शत्रवः (पुरस्तात्) अग्रतः (जुह्वति) हु दानादनयोः। अदन्ति। नाशयन्ति (जातवेदः) आ० १।७।२। हे जातप्रज्ञान परमेश्वर (प्राच्याः) अ० ३।२६।१। स्वास्थानात् पूर्वायाः स्वाभिमुखीभूतायाः (दिशः) दिशायाः सकाशात् (अभिदासन्ति) अभितो घ्नन्ति (अस्मान्) (धार्मिकान्) (अग्निम्) सर्वव्यापिनं त्वां जातवेदसम् (ऋत्वा) गत्वा प्राप्य (ते) शत्रवः (पराञ्चः) पराङ्मुखाः कुण्ठितशक्तयः सन्तः (व्यथन्ताम्) व्यथ भयचलनयोः। व्यथिताः संतप्ता भवन्तु (प्रत्यक्) प्रतिमुखम् (एनान्) दुष्टान् शत्रून् (प्रतिसरेण) अ० २।११।२। अग्रगामिना त्वया सह (हन्मि) नाशयामि ॥
इंग्लिश (1)
Subject
Destruction of Enemies
Meaning
O Jataveda, omniscient lord of light, discrimination and justice, there are those who first offer the tribute of homage upfront from the east and then from the same direction attack and try to enslave us. Later, when they face Agni, lord of light and discriminative vision, they come to nothing. I hit and destroy them straight with an equal and opposite weapon.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
१−(ये) शत्रवः (पुरस्तात्) अग्रतः (जुह्वति) हु दानादनयोः। अदन्ति। नाशयन्ति (जातवेदः) आ० १।७।२। हे जातप्रज्ञान परमेश्वर (प्राच्याः) अ० ३।२६।१। स्वास्थानात् पूर्वायाः स्वाभिमुखीभूतायाः (दिशः) दिशायाः सकाशात् (अभिदासन्ति) अभितो घ्नन्ति (अस्मान्) (धार्मिकान्) (अग्निम्) सर्वव्यापिनं त्वां जातवेदसम् (ऋत्वा) गत्वा प्राप्य (ते) शत्रवः (पराञ्चः) पराङ्मुखाः कुण्ठितशक्तयः सन्तः (व्यथन्ताम्) व्यथ भयचलनयोः। व्यथिताः संतप्ता भवन्तु (प्रत्यक्) प्रतिमुखम् (एनान्) दुष्टान् शत्रून् (प्रतिसरेण) अ० २।११।२। अग्रगामिना त्वया सह (हन्मि) नाशयामि ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal