अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 2
उदे॑नं॒ भगो॑ अग्रभी॒दुदे॑नं॒ सोमो॑ अंशु॒मान्। उदे॑नं म॒रुतो॑ दे॒वा उदि॑न्द्रा॒ग्नी स्व॒स्तये॑ ॥
स्वर सहित पद पाठउत् । ए॒न॒म् । भग॑: । अ॒ग्र॒भी॒त् । उत् । ए॒न॒म् ।सोम॑: । अं॒शु॒ऽमान् । उत् । ए॒न॒म् । म॒रुत॑: । दे॒वा: । उत् । इ॒न्द्रा॒ग्नी इति॑ । स्व॒स्तये॑ ॥१.२॥
स्वर रहित मन्त्र
उदेनं भगो अग्रभीदुदेनं सोमो अंशुमान्। उदेनं मरुतो देवा उदिन्द्राग्नी स्वस्तये ॥
स्वर रहित पद पाठउत् । एनम् । भग: । अग्रभीत् । उत् । एनम् ।सोम: । अंशुऽमान् । उत् । एनम् । मरुत: । देवा: । उत् । इन्द्राग्नी इति । स्वस्तये ॥१.२॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 2
Translation -
For the well-being and health of this man the sun has entered in the body of this man, the moon with its luster’s has occupied its place in this man’s body, the ten mighty vital airs and the electricity and fire have their place in this man’s structure.