अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 22
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - त्रिपदा ब्राह्मी पुरउष्णिक्
सूक्तम् - मधु विद्या सूक्त
यो वै कशा॑याः स॒प्त मधू॑नि॒ वेद॒ मधु॑मान्भवति। ब्रा॑ह्म॒णश्च॒ राजा॑ च धे॒नुश्चा॑न॒ड्वांश्च॑ व्री॒हिश्च॒ यव॑श्च॒ मधु॑ सप्त॒मम् ॥
स्वर सहित पद पाठय: । वै । कशा॑या: । स॒प्त । मधू॑नि । वेद॑ । मधु॑ऽमान् । भ॒व॒ति॒ । ब्रा॒ह्म॒ण: । च॒ । राजा॑ । च॒ । धे॒नु: । च॒ । अ॒न॒ड्वान् । च॒ । व्री॒हि: । च॒ । यव॑: । च॒ । मधु॑ । स॒प्त॒मम् ॥१.२२।
स्वर रहित मन्त्र
यो वै कशायाः सप्त मधूनि वेद मधुमान्भवति। ब्राह्मणश्च राजा च धेनुश्चानड्वांश्च व्रीहिश्च यवश्च मधु सप्तमम् ॥
स्वर रहित पद पाठय: । वै । कशाया: । सप्त । मधूनि । वेद । मधुऽमान् । भवति । ब्राह्मण: । च । राजा । च । धेनु: । च । अनड्वान् । च । व्रीहि: । च । यव: । च । मधु । सप्तमम् ॥१.२२।
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 22
Translation -
He who knows the seven main thing of Kasha becomes men endowed with sweetness and knowledge. Vedic priest, the king, the cow, the Ox, paddy, barley and honey, the seventh are the seven main things of Kasha.