अथर्ववेद - काण्ड 2/ सूक्त 10/ मन्त्र 4
सूक्त - भृग्वङ्गिराः
देवता - वातपत्नी
छन्दः - सप्तापदा धृतिः
सूक्तम् - पाशमोचन सूक्त
इ॒मा या दे॒वीः प्र॒दिश॒श्चत॑स्रो॒ वात॑पत्नीर॒भि सूर्यो॑ वि॒चष्टे॑। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
स्वर सहित पद पाठइ॒मा: । या: । दे॒वी: । प्र॒ऽदिश॑: । चत॑स्र: । वात॑ऽपत्नी: । अ॒भि । सूर्य॑: । वि॒ऽचष्टे॑ । ए॒व । अ॒हम् । त्वाम् । क्षे॒त्रि॒यात् । नि:ऋ॑त्या: । जा॒मि॒ऽशं॒सात् । द्रु॒ह: । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.४॥
स्वर रहित मन्त्र
इमा या देवीः प्रदिशश्चतस्रो वातपत्नीरभि सूर्यो विचष्टे। एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥
स्वर रहित पद पाठइमा: । या: । देवी: । प्रऽदिश: । चतस्र: । वातऽपत्नी: । अभि । सूर्य: । विऽचष्टे । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 10; मन्त्र » 4
भाषार्थ -
(इमाः याः) ये जो (देवीः) द्योतमान (चतस्रः प्रदिशः) चार प्रकृष्ट दिशाएँ हैं, (वातपत्नीः) वायु जिन का पति है, रक्षक है, जिन्हें कि (सूर्यः अभि विचष्टे) सूर्य सब ओर से देखता है, प्रकाशित करता है [वे तेरे लिये "सूर्यसहित, शम् भवन्तु")] (एव= एवम् ) इसी प्रकार ( अहम्) मैं प्रयोक्ता (त्वा) तुझे (क्षेत्रियात्") क्षेत्रिय आदि से पूर्ववत् ।
टिप्पणी -
[विचष्टे = चष्टे पश्यतिकर्मा (निघं० ३।११)। अभि =अभित:, सर्वतः (सायण)। देवी: = देवो दानाद् वा दीपनाद् वा, द्योतनाद् वा, द्युस्थानो भवतीति वा" (निरुक्त ७।४।१५)।]