अथर्ववेद - काण्ड 2/ सूक्त 10/ मन्त्र 3
सूक्त - भृग्वङ्गिराः
देवता - वातः, चत्वारो दिशश्च
छन्दः - सप्तापदा धृतिः
सूक्तम् - पाशमोचन सूक्त
शं ते॒ वातो॑ अ॒न्तरि॑क्षे॒ वयो॑ धा॒च्छं ते॑ भ॒वन्तु॑ प्र॒दिश॒श्चत॑स्रः। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
स्वर सहित पद पाठशम् । ते॒ । वात॑: । अ॒न्तरि॑क्षे । वय॑: । धा॒त् । शम् । ते॒ । भ॒वन्तु॒ । प्र॒ऽदिश॑: । चत॑स्र: । ए॒व । अ॒हम् । त्वाम् । क्षे॒त्रि॒यात् । नि:ऋ॑त्या: । जा॒मि॒ऽशं॒सात् । द्रु॒ह: । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.३॥
स्वर रहित मन्त्र
शं ते वातो अन्तरिक्षे वयो धाच्छं ते भवन्तु प्रदिशश्चतस्रः। एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥
स्वर रहित पद पाठशम् । ते । वात: । अन्तरिक्षे । वय: । धात् । शम् । ते । भवन्तु । प्रऽदिश: । चतस्र: । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 10; मन्त्र » 3
भाषार्थ -
(अन्तरिक्षे वातः) अन्तरिक्ष में वायु (ते ) तेरे लिए ( शम् ) सुखकारी हो, और (वयः धात्) स्वस्थ तथा दीर्घ आयु परिपुष्ट करे, (प्रदिशः चतस्रः) विस्तृत चार दिशाएँ (ते) तेरे लिये ( शम् ) सुखकारी (भवन्तु) हों । (एव =एवम) इसी प्रकार ( अहम् ) मैं प्रयोक्ता ( त्वा) तुझे (क्षेत्रियात् ) क्षेत्रिय आदि से, पूर्ववत्।