अथर्ववेद - काण्ड 2/ सूक्त 10/ मन्त्र 2
सूक्त - भृग्वङ्गिराः
देवता - आपो देवाः, अग्निः, सोमः
छन्दः - सप्तपदाष्टिः
सूक्तम् - पाशमोचन सूक्त
शं ते॑ अ॒ग्निः स॒हाद्भिर॑स्तु॒ शं सोमः॑ स॒हौष॑धीभिः। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
स्वर सहित पद पाठशम् । ते॒ । अ॒ग्नि : । स॒ह । अ॒त्ऽभि: । अ॒स्तु॒ । शम् । सोम॑: । स॒ह । ओष॑धीभि: । ए॒व । अ॒हम् । त्वाम् । क्षे॒त्रि॒यात् । नि:ऽऋ॑त्या: । जा॒मि॒ऽशं॒सात् । द्रु॒ह: । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.२॥
स्वर रहित मन्त्र
शं ते अग्निः सहाद्भिरस्तु शं सोमः सहौषधीभिः। एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥
स्वर रहित पद पाठशम् । ते । अग्नि : । सह । अत्ऽभि: । अस्तु । शम् । सोम: । सह । ओषधीभि: । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऽऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.२॥
अथर्ववेद - काण्ड » 2; सूक्त » 10; मन्त्र » 2
भाषार्थ -
(अद्भिः सह अग्निः) जल के साथ अग्नि (ते ) तेरे लिए ( शम् ) सुखकारी तथा रोग का शमन करनेवाली हो। (ओषधीभिः सह) ओषधियों के साथ (सोमः) सोम-ओषधि (शम् ) सुखकारी तथा रोग का शमन करनेवाला हो (एव= एवम् ) इसी प्रकार ( अहम् ) मैं प्रयोक्ता (त्वा) तुझे (क्षेत्रियात्) क्षेत्रिय आदि से पूर्ववत्, [अर्थात् क्षेत्रिय आदि से मुक्त कर मैं प्रयोक्ता "शम्" सुखी होता हूँ।]
टिप्पणी -
[अद्धिः सह अग्निः= जलचिकित्सा के साथ यज्ञियाग्निः। सोमः सहौषधीभिः= सोमो वीरुधामधिपतिः [(अथर्व ५।२४।७) वीरुध:= ओषधयः।]