Loading...
अथर्ववेद > काण्ड 2 > सूक्त 10

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 10/ मन्त्र 7
    सूक्त - भृग्वङ्गिराः देवता - निर्ऋतिः छन्दः - सप्तापदा धृतिः सूक्तम् - पाशमोचन सूक्त

    अहा॒ अरा॑ति॒मवि॑दः स्यो॒नमप्य॑भूर्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥

    स्वर सहित पद पाठ

    अहा॑: । अरा॑तिम् । अवि॑द: । स्यो॒नम् । अपि॑ । अ॒भू॒: । भ॒द्रे । सु॒ऽकृ॒तस्य॑ । लो॒के । ए॒व । अ॒हम् । त्वाम् । क्षे॒त्रि॒यात् । नि:ऽऋ॑त्या: । जा॒मि॒ऽशं॒सात् । द्रु॒ह: । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.७॥


    स्वर रहित मन्त्र

    अहा अरातिमविदः स्योनमप्यभूर्भद्रे सुकृतस्य लोके। एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥

    स्वर रहित पद पाठ

    अहा: । अरातिम् । अविद: । स्योनम् । अपि । अभू: । भद्रे । सुऽकृतस्य । लोके । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऽऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.७॥

    अथर्ववेद - काण्ड » 2; सूक्त » 10; मन्त्र » 7

    भाषार्थ -
    (अहाः अरातिम्) शत्रुसदृश वर्तमान क्षेत्रिय रोग आदि का तूने त्याग कर दिया है, (स्योनम् अविदः) सुख को तूने प्राप्त किया है। (भद्रे सुकृतस्य लोके अपि) सुखदायक और कल्याणकारी, सुकर्मियों के इस लोक में भी (अभूः) तूं हो गया है। (एवाहम् ) इस प्रकार मैं चिकित्सक (त्वाम् ) तुझे (क्षत्रियात्..) क्षत्रिय रोग आदि से (मुञ्चामि) मुक्त करता हूँ; शेष पूर्ववत्।

    इस भाष्य को एडिट करें
    Top