अथर्ववेद - काण्ड 2/ सूक्त 10/ मन्त्र 6
सूक्त - भृग्वङ्गिराः
देवता - यक्ष्म
छन्दः - सप्तापदात्यष्टिः
सूक्तम् - पाशमोचन सूक्त
अमु॑क्था॒ यक्ष्मा॑द्दुरि॒ताद॑व॒द्याद्द्रु॒हः पाशा॒द्ग्राह्या॒श्चोद॑मुक्थाः। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
स्वर सहित पद पाठअमु॑क्था: । यक्ष्मा॑त् । दु॒:ऽइ॒तात् । अ॒व॒द्यात् । द्रु॒ह: । पाशा॑त् । ग्राह्या॑: । च॒ । उत् । अ॒मु॒क्था॒: । ए॒व । अ॒हम् । त्वाम् । क्षे॒त्रि॒यात् । नि:ऋ॑त्या: । जा॒मि॒ऽशं॒सात् । द्रु॒ह: । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.६॥
स्वर रहित मन्त्र
अमुक्था यक्ष्माद्दुरितादवद्याद्द्रुहः पाशाद्ग्राह्याश्चोदमुक्थाः। एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥
स्वर रहित पद पाठअमुक्था: । यक्ष्मात् । दु:ऽइतात् । अवद्यात् । द्रुह: । पाशात् । ग्राह्या: । च । उत् । अमुक्था: । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.६॥
अथर्ववेद - काण्ड » 2; सूक्त » 10; मन्त्र » 6
भाषार्थ -
(अवद्यात् ) निन्दनीय या अकथनीय (दुरितात् यक्ष्मात्) दुष्परिणामी यक्ष्म से (अमुक्थाः) तू मुक्त हो गया है, छूट गया है, (द्रुहः) द्रोहभावना से, (पाशात्) वरुण के पाश से, ( ग्राह्या: च ) और जकड़न से (अमुक्थाः ) तू मुक्त हो गया है, छूट गया है। (एवाहम्) इस प्रकार मैं चिकित्सक (स्वा) तुझे (क्षेत्रियात्....) क्षेत्रिय रोग आदि से ( मुञ्चामि ) मुक्त करता हूँ; शेष पूर्ववत् ।
टिप्पणी -
[अमुक्था: से ज्ञात होता है कि व्यक्ति यक्ष्म आदि से मुक्त हो गया है इसे ही "मुञ्चामि" द्वारा कहा है।]