अथर्ववेद - काण्ड 2/ सूक्त 10/ मन्त्र 5
सूक्त - भृग्वङ्गिराः
देवता - सूर्यः
छन्दः - सप्तापदा धृतिः
सूक्तम् - पाशमोचन सूक्त
तासु॑ त्वा॒न्तर्ज॒रस्या द॒धामि॒ प्र यक्ष्म॑ एतु॒ निरृ॑तिः परा॒चैः। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
स्वर सहित पद पाठतासु॑ । त्वा॒ । अ॒न्त:। ज॒रसि॑ । आ । द॒धा॒मि॒ । प्र । यक्ष्म॑: । ए॒तु॒ । नि:ऋ॑ति:। प॒रा॒चै: । ए॒व । अ॒हम् । त्वाम् । क्षे॒त्रि॒यात् । नि:ऋ॑त्या: । जा॒मि॒ऽशं॒सात् । द्रु॒ह: । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.५॥
स्वर रहित मन्त्र
तासु त्वान्तर्जरस्या दधामि प्र यक्ष्म एतु निरृतिः पराचैः। एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥
स्वर रहित पद पाठतासु । त्वा । अन्त:। जरसि । आ । दधामि । प्र । यक्ष्म: । एतु । नि:ऋति:। पराचै: । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 10; मन्त्र » 5
भाषार्थ -
(तासु अन्तः) उन द्योतमान दिशाओं के मध्य, ( जरसि ) जरावस्था में (त्वा) तुझे (आ दधामि) मैं स्थापित करता हूँ। (निर्ऋतिः यक्ष्मः) कृच्छ्रापत्तिरूप यक्ष्म (पराचैः) परे के अर्थात् दूर के मार्गों द्वारा ( प्र एतु ) प्रगत हो जाय। (एवाहम्) इस प्रकार मैं प्रयोक्ता ( त्वा) तुझे (क्षेत्रियात्...) क्षेत्रिय आदि से; पूर्ववत्।
टिप्पणी -
[मन्त्र में कष्टदायक यक्ष्मरोग का वर्णन हुआ है। यक्ष्मरोगी को, जबकि वह विशेषतया वृद्धावस्था में हो, तो उसका निवास द्योतमान तथा खुले घर में होना चाहिए । यथा "ता वां वास्तून्यश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः। अत्राह तदुरुगायस्य वृष्ण: परमं पदमवभाति भूरि। (ऋ० १।१५४।६) गाव:= सूर्य रश्मयः। भूरिशृङ्गा:= बहुज्वलनाः, बहुप्रदीप्ताः" शृङ्गाणि ज्वलतो नाम (निघं० १।१०)। उरुगायस्य =महागृहस्य। वृष्णः= वर्षाकारिणः सूर्यस्य, अथवा रश्मीणाम् वर्षाकारिणः सूर्यस्य।]