अथर्ववेद - काण्ड 20/ सूक्त 94/ मन्त्र 9
इ॒मं बि॑भर्मि॒ सुकृ॑तं ते अङ्कु॒शं येना॑रु॒जासि॑ मघवञ्छफा॒रुजः॑। अ॒स्मिन्त्सु ते॒ सव॑ने अस्त्वो॒क्यं सु॒त इ॒ष्टौ म॑घवन्बो॒ध्याभ॑गः ॥
स्वर सहित पद पाठइ॒मम् । बि॒भ॒र्मि॒ । सुऽकृ॑तम् । ते॒ । अ॒ङ्कु॒शम् । येन॑ । आ॒ऽरु॒जासि॑ । म॒घ॒ऽव॒न् । श॒फ॒ऽआ॒रुज॑: ॥ अ॒स्मिन् । सु । ते । सव॑ने । अ॒स्तु॒ । ओ॒क्य॑म् । सु॒ते । इ॒ष्टौ । म॒घ॒ऽव॒न् । बो॒धि॒ । आऽभ॑ग:॥९४.९॥
स्वर रहित मन्त्र
इमं बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवञ्छफारुजः। अस्मिन्त्सु ते सवने अस्त्वोक्यं सुत इष्टौ मघवन्बोध्याभगः ॥
स्वर रहित पद पाठइमम् । बिभर्मि । सुऽकृतम् । ते । अङ्कुशम् । येन । आऽरुजासि । मघऽवन् । शफऽआरुज: ॥ अस्मिन् । सु । ते । सवने । अस्तु । ओक्यम् । सुते । इष्टौ । मघऽवन् । बोधि । आऽभग:॥९४.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 94; मन्त्र » 9
भाषार्थ -
हे परमेश्वर! (सुकृतम्) प्रजा को सुकर्मी करनेवाले, (ते) आपके (इमम् अङ्कुशम्) इस न्यायाङ्कुश को (बिभर्मि) मैं अपने जीवन में धारण करता हूँ, (येन) सिज न्यायाङ्कुश द्वारा (मघवन्) हे ऐश्वर्यशाली! (शफारुजः) गौ आदि के खुर के स्पर्शमात्र से जैसे खुम्भ नष्ट हो जाती है, वैसे आप दुष्कर्मियों को (आ रुजासि) सम्पूर्णतया नष्ट-भ्रष्ट कर देते हैं। (मघवन्) हे ऐश्वर्यशाली! (अस्मिन् सवने) इस भक्तिरसमय-उपासना-यज्ञ में (ते) आपका (सु ओक्यम्) उत्तम निवास (अस्तु) हो, और (इष्टौ) इस उपासना-यज्ञ में (सुते) प्रकट हुए भक्तिरस के आप (आ भगः) पूर्णतया भागी बनिए, और (बोधि) हमारी भावनाओं और इच्छाओं को जानिए।