अथर्ववेद - काण्ड 4/ सूक्त 21/ मन्त्र 6
यू॒यं गा॑वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त्कृणुथा सु॒प्रती॑कम्। भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ॥
स्वर सहित पद पाठयू॒यम् । गा॒व: । मे॒द॒य॒थ॒ । कृ॒शन् । चि॒त् । अ॒श्री॒रम् । चि॒त् । कृ॒णु॒थ॒ । सु॒ऽप्रती॑कम् । भ॒द्रम् । गृ॒हम् । कृ॒णु॒थ॒ । भ॒द्र॒ऽवा॒च॒: । बृ॒हत् । व॒: । वय॑: । उ॒च्य॒ते॒ । स॒भासु॑ ॥२१.६॥
स्वर रहित मन्त्र
यूयं गावो मेदयथा कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम्। भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु ॥
स्वर रहित पद पाठयूयम् । गाव: । मेदयथ । कृशन् । चित् । अश्रीरम् । चित् । कृणुथ । सुऽप्रतीकम् । भद्रम् । गृहम् । कृणुथ । भद्रऽवाच: । बृहत् । व: । वय: । उच्यते । सभासु ॥२१.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 21; मन्त्र » 6
भाषार्थ -
(गाव) हे गौओ! (यूयम्) तुम (कृशम् चित्) कमजोर को भी (मेदयथा) मोटा कर देती हो, (अश्रीरम्, चित्) शोभा से रहित को भी (सुप्रतीकम्) उत्तम शोभायुक्त अवयवोंवाला (कृणुथ) कर देती हो। (भद्रवाचः) कल्याणकारिणी तथा सुखप्रद आवाजों [रम्भा रव] वाली हे गौओ! तुम (गृहम्) घर को (भद्रम्) कल्याणकारी तथा सुखप्रद (कृणुथ) कर देती हो, (व: वय:) तुम्हारा अन्न (सभासु) सभाओं में (बृहत्) महत्त्वशाली या वृद्धिकारक (उच्यते) कहा जाता है।
टिप्पणी -
[भद्रम्= भदि कल्याणे सुखे च (भ्वादिः)। वयः अन्ननाम (निघं० २।७); दूध, दधि, घृत, आदि। मेदयथ= मिदि स्नेहने (चुरादिः)। बृहत्= वृह, वृद्धौ (भ्वादिः)।]