Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 15
    ऋषिः - शुनःशेप ऋषिः देवता - गणपतिर्देवता छन्दः - आर्षी स्वरः - निषादः
    7

    प्र॒तूर्व॒न्नेह्य॑व॒क्राम॒न्नश॑स्ती रु॒द्रस्य॒ गाण॑पत्यं मयो॒भूरेहि॑। उ॒र्वन्तरि॑क्षं॒ वीहि स्व॒स्तिग॑व्यूति॒रभ॑यानि कृ॒ण्वन् पू॒ष्णा स॒युजा॑ स॒ह॥१५॥

    स्वर सहित पद पाठ

    प्र॒तूर्व॒न्निति॑ प्र॒ऽतूर्व॑न्। आ। इ॒हि॒। अ॒व॒क्राम॒न्नित्य॑व॒ऽक्राम॑न्। अश॑स्तीः। रु॒द्रस्य॑। गाण॑पत्य॒मिति॒ गाण॑ऽपत्यम्। म॒यो॒भूरिति॑ मयः॒ऽभूः। आ। इ॒हि॒। उ॒रु। अ॒न्तरि॑क्षम्। वि। इ॒हि॒। स्व॒स्तिग॑व्यूति॒रिति॑ स्व॒स्तिऽग॑व्यूतिः। अभ॑यानि। कृ॒ण्वन्। पू॒ष्णा। स॒युजेति॑ स॒ऽयुजा॑। स॒ह ॥१५ ॥


    स्वर रहित मन्त्र

    प्रतूर्वन्नेह्यवक्रामन्नशस्तो रुद्रस्य गाणपत्यम्मयोभूरेहि । उर्वन्तरिक्षँवीहि स्वस्तिगव्यूतिरभयानि कृण्वन्पूष्णा सयुजा सह ॥


    स्वर रहित पद पाठ

    प्रतूर्वन्निति प्रऽतूर्वन्। आ। इहि। अवक्रामन्नित्यवऽक्रामन्। अशस्तीः। रुद्रस्य। गाणपत्यमिति गाणऽपत्यम्। मयोभूरिति मयःऽभूः। आ। इहि। उरु। अन्तरिक्षम्। वि। इहि। स्वस्तिगव्यूतिरिति स्वस्तिऽगव्यूतिः। अभयानि। कृण्वन्। पूष्णा। सयुजेति सऽयुजा। सह॥१५॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 15
    Acknowledgment

    अन्वयः - हे राजन्! स्वस्तिगव्यूतिस्त्वं पूष्णा सयुजा सहाशस्तीः प्रतूर्वन्नेहि शत्रुदेशानवक्रामन्नेहि मयोभूस्त्वं रुद्रस्य गाणपत्यमेहि। अभयानि कृण्वन् सन्नन्तरिक्षमुरु वीहि॥१५॥

    पदार्थः -
    (प्रतूर्वन्) हिंसन् (आ) (इहि) आगच्छ (अवक्रामन्) देशदेशान्तरानुल्लङ्घयन् (अशस्तीः) अप्रशस्ताः शत्रुसेनाः (रुद्रस्य) शत्रुरोदकस्य स्वसेनापतेः (गाणपत्यम्) गणानां सेनासमूहानां पतित्वम् (मयोभूः) मयः सुखं भावयन् (आ) (इहि) (उरु) (अन्तरिक्षम्) आकाशम् (वि) (इहि) विविधतया गच्छ (स्वस्तिगव्यूतिः) स्वस्ति सुखेन सह गव्यूतिर्मार्गो यस्य सः (अभयानि) स्वराज्ये सेनायां चाविद्यमानं भयं येषु तानि (कृण्वन्) सम्पादयन् (पूष्णा) पुष्टेन स्वकीयेन सैन्येन (सयुजा) यत्समानं युनक्ति तेन सहितः (सह) साकम्। [अयं मन्त्रः शत॰६.३.२.७-८ व्याख्यातः]॥१५॥

    भावार्थः - राजा सदैव स्वसेनां सुशिक्षितां हृष्टां पुष्टां रक्षेत्। यदाऽरिभिः सह योद्धुमिच्छेत् तदा स्वराज्यमनुपद्रवं संरक्ष्य युक्त्या बलेन च शत्रून् हिंसेत् वा श्रेष्ठान् पालयित्वा सर्वत्र सत्कीर्तिं प्रसारयेत्॥१५॥

    इस भाष्य को एडिट करें
    Top