Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 72
    ऋषिः - वारुणिर्ऋषिः देवता - अग्निर्देवता छन्दः - भुरिगुष्णिक् स्वरः - ऋषभः
    11

    प॒र॒मस्याः॑ परा॒वतो॑ रो॒हिद॑श्वऽइ॒हाग॑हि। पु॒री॒ष्यः पुरुप्रि॒योऽग्ने॒ त्वं त॑रा॒ मृधः॑॥७२॥

    स्वर सहित पद पाठ

    प॒र॒मस्याः॑। प॒रा॒वत॒ इति॑ परा॒ऽवतः॑। रो॒हिद॑श्व॒ इति॑ रो॒हित्ऽअ॑श्वः। इ॒ह। आ। ग॒हि॒। पु॒री॒ष्यः᳖। पु॒रु॒प्रि॒य इति॑ पुरुऽप्रि॒यः। अग्ने॑। त्वम्। त॒र॒। मृधः॑ ॥७२ ॥


    स्वर रहित मन्त्र

    परमस्याः परावतो रोहिदश्वऽइहा गहि । पुरीष्यः पुरुप्रियोग्ने त्वन्तरा मृधः ॥


    स्वर रहित पद पाठ

    परमस्याः। परावत इति पराऽवतः। रोहिदश्व इति रोहित्ऽअश्वः। इह। आ। गहि। पुरीष्यः। पुरुप्रिय इति पुरुऽप्रियः। अग्ने। त्वम्। तर। मृधः॥७२॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 72
    Acknowledgment

    अन्वयः - हे अग्ने पावक इव तेजस्विन् स्वामिन्! रोहिदश्वः पुरीष्यः पुरुप्रियस्त्वमिह परावतो देशात् परमस्याः कन्यायाः कीर्र्त्तिं श्रुत्वाऽऽगहि तया प्राप्तया सह मृघस्तर॥७२॥

    पदार्थः -
    (परमस्याः) अनुत्तमगुणरूपशीलायाः (परावतः) दूरदेशात् (रोहिदश्वः) रोहितोऽग्न्यादयोऽश्वा वाहनानि यस्य सः (इह) (आ) (गहि) आगच्छ (पुरीष्यः) पुरीषेषु पालनेषु साधुः (पुरुप्रियः) पुरूणां बहूनां जनानां मध्ये प्रियः प्रीतः (अग्ने) अग्निप्रकाशवद्विज्ञानयुक्त (त्वम्) (तर) उल्लङ्घ। अत्र द्व्यचोऽतस्तिङः [अष्टा॰६.३.१३५] इति दीर्घः। (मृधः) परपदार्थभिकांक्षिणः शत्रून्। [अयं मन्त्रः शत॰६.६.३.४ व्याख्यातः]॥७२॥

    भावार्थः - मनुष्यैः स्वस्याः कन्यायाः पुत्रस्य वा समीपदेशे विवाहः कदाचिन्नैव कार्य्यः। यावद्दूरे विवाहः क्रियते तावदेवाऽधिकं सुखं जायते, निकटे कलह एव॥७२॥

    इस भाष्य को एडिट करें
    Top