Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 39
    ऋषिः - सिन्धुद्वीप ऋषिः देवता - वायुर्देवता छन्दः - विराट् स्वरः - धैवतः
    5

    सं ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधातूत्ता॒नाया॒ हृद॑यं॒ यद्विक॑स्तम्। यो दे॒वानां॒ चर॑सि प्रा॒णथे॑न॒ कस्मै॑ देव॒ वष॑डस्तु॒ तुभ्य॑म्॥३९॥

    स्वर सहित पद पाठ

    सम्। ते॒। वा॒युः। मा॒त॒रिश्वा॑। द॒धा॒तु॒। उ॒त्ता॒नायाः॑। हृद॑यम्। यत्। विक॑स्त॒मिति॒ विऽक॑स्तम्। यः। दे॒वाना॑म्। चर॑सि। प्रा॒णथे॑न। कस्मै॑। दे॒व॒। वष॑ट्। अ॒स्तु॒। तुभ्य॑म् ॥३९ ॥


    स्वर रहित मन्त्र

    सन्ते वायुर्मातरिश्वा दधातूत्तानाया हृदयँयद्विकस्तम् । यो देवानाञ्चरसि प्राणथेन कस्मै देव वषडस्तु तुभ्यम् ॥


    स्वर रहित पद पाठ

    सम्। ते। वायुः। मातरिश्वा। दधातु। उत्तानायाः। हृदयम्। यत्। विकस्तमिति विऽकस्तम्। यः। देवानाम्। चरसि। प्राणथेन। कस्मै। देव। वषट्। अस्तु। तुभ्यम्॥३९॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 39
    Acknowledgment

    अन्वयः - हे पत्नि! उत्तानायास्ते यद्विकस्तं हृदयं तद्यज्ञशोधितो मातरिश्वा वायुः संदधातु। हे देव पते स्वामिन्! यस्त्वं प्राणथेन देवानां यद्विकस्तं हृदयं चरसि, तस्मै कस्मै तुभ्यं मत्तो वष[स्तु॥३९॥

    पदार्थः -
    (सम्) (ते) तव (वायुः) पवनः (मातरिश्वा) यो मातर्य्यन्तरिक्षे श्वसिति सः (दधातु) धरतु पुष्णातु वा (उत्तानायाः) उत्कृष्टस्तानः शुभलक्षणविस्तारो यस्या राज्ञ्यास्तस्याः (हृदयम्) अन्तःकरणम् (यत्) (विकस्तम्) विविधतया कस्यते शिष्यते यत् तत् (यः) विद्वान् (देवानाम्) धार्मिकाणां विदुषाम् (चरसि) गच्छसि प्राप्नोषि (प्राणथेन) येन प्राणन्ति सुखयन्ति तेन (कस्मै) सुखस्वरूपाय (देव) दिव्यसुखप्रद (वषट्) क्रियाकौशलम् (अस्तु) (तुभ्यम्)। [अयं मन्त्रः शत॰६.४.३.४ व्याख्यातः]॥३९॥

    भावार्थः - पूर्णयुवा पुरुषो ब्रह्मचारिण्या सह विवाहं कुर्यात् तस्या अप्रियं कदाचिन्नाचरेत्। या स्त्री कन्या ब्रह्मचारिणा सहोपयमं कुर्य्यात् तस्यानिष्टं मनसापि न चिन्तयेत्। एवं प्रमुदितौ सन्तौ परस्परं संप्रीत्या गृहकृत्यानि संसाधयेताम्॥३९॥

    इस भाष्य को एडिट करें
    Top