Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 35
    ऋषिः - देवश्रवदेववातावृषी देवता - होता देवता छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः
    9

    सीद॑ होतः॒ स्वऽउ॑ लो॒के चि॑कि॒त्वान्त्सा॒दया॑ य॒ज्ञꣳ सु॑कृ॒तस्य॒ योनौ॑। दे॒वा॒वीर्दे॒वान् ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः॥३५॥

    स्वर सहित पद पाठ

    सीद॑। हो॒त॒रिति॑ होतः। स्वे। ऊँ॒ इत्यूँ॑। लो॒के। चि॒कि॒त्वान्। सा॒दय॑। य॒ज्ञम्। सु॒कृ॒तस्येति॑ सुऽकृ॒तस्य॑। योनौ॑। दे॒वा॒वीरिति॑ देवऽअ॒वीः। दे॒वान्। ह॒विषा॑। य॒जा॒सि॒। अग्ने॑। बृ॒हत्। यज॑माने। वयः॑। धाः॒ ॥३५ ॥


    स्वर रहित मन्त्र

    सीद होतः स्वऽउ लोके चिकित्वान्सादया यज्ञँ सुकृतस्य योनौ । देवावीर्देवान्हविषा यजास्यग्ने बृहद्यजमाने वयो धाः ॥


    स्वर रहित पद पाठ

    सीद। होतरिति होतः। स्वे। ऊँ इत्यूँ। लोके। चिकित्वान्। सादय। यज्ञम्। सुकृतस्येति सुऽकृतस्य। योनौ। देवावीरिति देवऽअवीः। देवान्। हविषा। यजासि। अग्ने। बृहत्। यजमाने। वयः। धाः॥३५॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 35
    Acknowledgment

    अन्वयः - हे अग्ने! होतश्चिकित्वाँस्त्वं स्वे लोके सीद। सुकृतस्य योनौ यज्ञं सादय। देवावीः सँस्त्वं हविषा देवान् यजासि यजमाने वयोधाः॥३५॥

    पदार्थः -
    (सीद) अवस्थितो भव (होतः) दातर्ग्रहीतः (स्वे) सुखे (उ) (लोके) लोकनीये (चिकित्वान्) विज्ञानयुक्तः (सादय) गमय। अत्र अन्येषामपि दृश्यते [अष्टा॰६.३.१३७] इति दीर्घः। (यज्ञम्) धर्म्यं राजप्रजाव्यवहारम् (सुकृतस्य) सष्ठुकृतस्य धार्मिकस्य (योनौ) कारणे (देवावीः) देवै रक्षितः शिक्षितश्च (देवान्) विदुषो दिव्यगुणान् वा (हविषा) दानग्रहणयोग्येन न्यायेन (यजासि) याजयेः (अग्ने) विद्वन् (बृहत्) महत् (यजमाने) राजादौ जने चिरञ्जीविनम् (वयः) दीर्घं जीवनम् (धाः) धेहि। [अयं मन्त्रः शत॰६.४.२.६ व्याख्यातः]॥३५॥

    भावार्थः - विद्वद्भिरस्मिन् जगति द्वे कर्मणी सततं कार्य्ये। आद्यं ब्रह्मचर्य्यजितेन्द्रियत्वादिशिक्षया शरीरारोग्यबलादियुक्तं चिरञ्जीवनमुत्तरं विद्याक्रियाकौशलग्रहणेनात्मबलं च संसाध्यम्, यतः सर्वे मनुष्याः शरीरात्मबलयुक्ताः सन्तः सर्वदानन्देयुः॥३५॥

    इस भाष्य को एडिट करें
    Top