यजुर्वेद - अध्याय 11/ मन्त्र 79
ऋषिः - नाभानेदिष्ठ ऋषिः
देवता - सेनापतिर्देवता
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
20
ये जने॑षु म॒लिम्ल॑व स्ते॒नास॒स्तस्क॑रा॒ वने॑। ये कक्षे॑ष्वघा॒यव॒स्ताँस्ते॑ दधामि॒ जम्भ॑योः॥७९॥
स्वर सहित पद पाठये। जने॑षु। म॒लिम्ल॑वः। स्ते॒नासः॑। तस्क॑राः। वने॑। ये। कक्षे॑षु। अ॒घा॒यवः॑। अ॒घ॒यव॒ इत्य॑घ॒ऽयवः॑। तान्। ते॒। द॒धा॒मि॒। जम्भ॑योः ॥७९ ॥
स्वर रहित मन्त्र
ये जनेषु मलिम्लव स्तेनासस्तस्करा वने । ये कक्षेष्वघायवस्ताँस्ते दधामि जम्भयोः ॥
स्वर रहित पद पाठ
ये। जनेषु। मलिम्लवः। स्तेनासः। तस्कराः। वने। ये। कक्षेषु। अघायवः। अघयव इत्यघऽयवः। तान्। ते। दधामि। जम्भयोः॥७९॥
विषयः - पुनरेते काँस्कान् निवर्त्तयेयुरित्याह॥
अन्वयः - हे सभेश! सेनापतिरहं ये जनेषु मलिम्लवः स्तेनासो ये वने तस्करा ये कक्षेष्वघायवः सन्ति, ताँस्ते जम्भयोर्ग्रासमिव दधामि॥७९॥
पदार्थः -
(ये) (जनेषु) मनुष्येषु (मलिम्लवः) ये मलिनाः सन्तो म्लोचन्ति गच्छन्ति ते (स्तेनासः) गुप्ताश्चोराः (तस्कराः) प्रसिद्धाः (वने) अरण्ये (ये) (कक्षेषु) सामन्तेषु (अघायवः) आत्मनोऽघेन पापेनायुरिच्छवः (तान्) (ते) तव (दधामि) (जम्भयोः) बन्धने मुखमध्ये ग्रासमिव। [अयं मन्त्रः शत॰६.६.३.१० व्याख्यातः]॥७९॥
भावार्थः - सेनापत्यादिराजपुरुषाणामिदमेव कर्त्तव्यमस्ति यद् ग्रामारण्यस्थाः प्रसिद्धा अप्रसिद्धाश्चोराः पापाचाराश्च पुरुषाः सन्ति, तेषां राजाधीनत्वं कुर्य्युरिति॥७९॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal