Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 80
    ऋषिः - नाभानेदिष्ठ ऋषिः देवता - अध्यापकोपदेशकौ देवते छन्दः - अनुष्टुप् स्वरः - गान्धारः
    7

    योऽअ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वे॑षते॒ जनः॑। निन्दा॒द्योऽअ॒स्मान् धिप्सा॑च्च॒ सर्वं॒ तं भ॑स्म॒सा कु॑रु॥८०॥

    स्वर सहित पद पाठ

    यः। अ॒स्मभ्य॑म्। अ॒रा॒ती॒यात्। अ॒रा॒ति॒यादित्य॑राति॒ऽयात्। यः। च॒। नः॒। द्वेष॑ते। जनः॑। निन्दा॑त्। यः। अ॒स्मान्। धिप्सा॑त्। च॒। सर्व॑म्। तम्। भ॒स्म॒सा। कु॒रु॒ ॥८० ॥


    स्वर रहित मन्त्र

    योऽअस्मभ्यमरातीयाद्यश्च नो द्वेषते जनः । निन्दाद्योऽअस्मान्धिप्साच्च सर्वन्तम्भस्मसा कुरु ॥


    स्वर रहित पद पाठ

    यः। अस्मभ्यम्। अरातीयात्। अरातियादित्यरातिऽयात्। यः। च। नः। द्वेषते। जनः। निन्दात्। यः। अस्मान्। धिप्सात्। च। सर्वम्। तम्। भस्मसा। कुरु॥८०॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 80
    Acknowledgment

    अन्वयः - हे सभासेनेश! त्वं यो जनोऽस्मभ्यमरातीयाद्, यो नो द्वेषते निन्दाच्च योऽस्मान् धिप्साच्छलेच्च, तं सर्वं भस्मसा कुरु॥८०॥

    पदार्थः -
    (यः) मनुष्यः (अस्मभ्यम्) धार्मिकेभ्यः (अरातीयात्) शत्रुत्वमाचरेत् (यः) (च) (नः) अस्मान् (द्वेषते) अप्रीतयति। अत्र बहुलं छन्दसि [अष्टा॰२.४.७३] इति शपो लुगभावः। (जनः) (निन्दात्) निन्देत् (यः) (अस्मान्) (धिप्सात्) दम्भितुमिच्छेत् (च) (सर्वम्) (तम्) (भस्मसा) कृत्स्नम्भस्मेति भस्मसा, अत्र छान्दसो वर्णलोप इति तलोपः। (कुरु) संपादय। [अयं मन्त्रः शत॰६.६.३.१० व्याख्यातः]॥८०॥

    भावार्थः - अध्यापकोपदेशकराजपुरुषाणामिदं योग्यमस्ति यदध्यापनेन शिक्षयोपदेशेन दण्डेन च विरोधस्य सततं विनाशकरणमिति॥८०॥

    इस भाष्य को एडिट करें
    Top