Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 22/ मन्त्र 16
    ऋषिः - प्रजापतिर्ऋषिः देवता - अग्निर्देवता छन्दः - निचृदगायत्री स्वरः - षड्जः
    5

    स ह॑व्य॒वाडम॑र्त्यऽउ॒शिग्दू॒तश्चनो॑हितः।अ॒ग्निर्धि॒या समृ॑ण्वति॥१६॥

    स्वर सहित पद पाठ

    सः। ह॒व्य॒वाडिति॑ हव्य॒ऽवाट्। अम॑र्त्यः। उ॒शिक्। दू॒तः। चनो॑हित॒ इति चनः॑ऽहितः। अ॒ग्निः। धि॒या। सम्। ऋ॒ण्व॒ति॒ ॥१६ ॥


    स्वर रहित मन्त्र

    स हव्यवाडमर्त्यऽउशिग्दूतश्चनोहितः । अग्निर्धिया समृण्वति ॥


    स्वर रहित पद पाठ

    सः। हव्यवाडिति हव्यऽवाट्। अमर्त्यः। उशिक्। दूतः। चनोहित इति चनःऽहितः। अग्निः। धिया। सम्। ऋण्वति॥१६॥

    यजुर्वेद - अध्याय » 22; मन्त्र » 16
    Acknowledgment

    अन्वयः - हे मनुष्याः! योऽमर्त्यो हव्यवाडुशिग्दूतश्चनोहितोऽग्निरस्ति स धिया समृण्वति॥१६॥

    पदार्थः -
    (सः) (हव्यवाट्) यो हव्यं वहति देशान्तरं प्रापयति सः (अमर्त्यः) मृत्युधर्मरहितः (उशिक्) कान्तिमान् (दूतः) दूत इव वर्त्तमानः (चनोहितः) यश्चनांसि अन्नानि हिनोति प्रापयति सः (अग्निः) पावकः (धिया) कर्मणा (सम्) (ऋण्वति) प्राप्नोति॥१६॥

    भावार्थः - यथा कार्यार्थं प्रेषितो दूतः कार्यसाधको भवति तथा सम्प्रयोजितोऽग्निः सुखकार्य्यसिद्धिकरो भवति॥१६॥

    इस भाष्य को एडिट करें
    Top