Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 22/ मन्त्र 18
    ऋषिः - अरुणत्रसदस्यू ऋषी देवता - पवमानो देवता छन्दः - पिपीलिकामध्या विराडनुष्टुप् स्वरः - गान्धारः
    7

    अजी॑जनो॒ हि प॑वमान॒ सूर्य्यं॑ वि॒धारे॒ शक्म॑ना॒ पयः॑।गोजी॑रया॒ रꣳह॑माणः॒ पुर॑न्ध्या॥१८॥

    स्वर सहित पद पाठ

    अजी॑जनः। हि। प॒व॒मा॒न। सूर्य॑म्। वि॒ऽधार॒ इति॑ वि॒ऽधारे॑। शक्म॑ना। पयः॑। गोजी॑र॒येति॒ गोऽजी॑रया। रꣳह॑माणः। पुर॒न्ध्येति॒ पुर॑म्ऽध्या ॥१८ ॥


    स्वर रहित मन्त्र

    अजीजनो हि पवमान सूर्यँविधारे शक्मना पयः । गोजीरया रँहमाणः पुरन्ध्या ॥


    स्वर रहित पद पाठ

    अजीजनः। हि। पवमान। सूर्यम्। विऽधार इति विऽधारे। शक्मना। पयः। गोजीरयेति गोऽजीरया। रꣳहमाणः। पुरन्ध्येति पुरम्ऽध्या॥१८॥

    यजुर्वेद - अध्याय » 22; मन्त्र » 18
    Acknowledgment

    अन्वयः - हे पवमानाग्निवत्पवत्र जन! योऽग्निः पुरन्ध्या रंहमाणः सूर्यमजीजनस्तं शक्मना गोजीरया पयश्चाऽहं विधारे हि॥१८॥

    पदार्थः -
    (अजीजनः) जनयति (हि) खलु (पवमान) पवित्रकारक (सूर्यम्) सवितृमण्डलम् (विधारे) धारयामि (शक्मना) कर्मणा। शक्मेति कर्मनाम॥ (निघं॰२।१) (पयः) उदकम् (गोजीरया) गवां जीरया जीवनक्रियया (रंहमाणः) गच्छन् (पुरन्ध्या) यया पुरं दधाति तया॥१८॥

    भावार्थः - यदि विद्युत्सूर्यस्य कारणं न स्यात् तर्हि सूर्योत्पत्तिः कथं स्याद्? यदि सूर्यो न स्यात् तर्हि भूगोलधृतिर्वृष्ट्या गवादिपशुजीवनं च कथं स्यात्?॥१८॥

    इस भाष्य को एडिट करें
    Top