यजुर्वेद - अध्याय 22/ मन्त्र 21
ऋषिः - प्रजापतिर्ऋषिः
देवता - विद्वान् देवता
छन्दः - आर्ष्युनुष्टुप्
स्वरः - गान्धारः
6
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्त्तो॑ वुरीत स॒ख्यम्। विश्वो॑ रा॒यऽइ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑॥२१॥
स्वर सहित पद पाठविश्वः॑। दे॒वस्य॑। ने॒तुः। मर्त्तः॑। बु॒री॒त॒। स॒ख्यम्। विश्वः॑। रा॒ये। इ॒षु॒ध्य॒ति॒। द्यु॒म्नम्। वृ॒णी॒त॒। पु॒ष्यसे॑। स्वाहा॑ ॥२१ ॥
स्वर रहित मन्त्र
विश्वो देवस्य नेतुर्मर्ता वुरीत सख्यम् । विश्वो राय इषुध्यति द्युम्नँवृणीत पुष्यसे स्वाहा ॥
स्वर रहित पद पाठ
विश्वः। देवस्य। नेतुः। मर्त्तः। बुरीत। सख्यम्। विश्वः। राये। इषुध्यति। द्युम्नम्। वृणीत। पुष्यसे। स्वाहा॥२१॥
विषयः - पुनर्मनुष्यै किं कर्त्तव्यमित्याह॥
अन्वयः - यथा विश्वो मर्तो नेतुर्देवस्य सख्यं वुरीत यथा वा विश्वो मर्त्यो राय इषुध्यति तथा स्वाहा पुष्यसे द्युम्नं वृणीत॥२१॥
पदार्थः -
(विश्वः) सर्वः (देवस्य) विदुषः (नेतुः) नायकस्य (मर्त्तः) मनुष्यः (वुरीत) वृणुयात्। अत्र व्यत्ययेनात्मनेपदं बहुलं छन्दसि [अ॰२.४.७३] इति शपो लुक्, लिङ्प्रयोगोऽयम् (सख्यम्) मित्रत्वम् (विश्वः) (राये) धनाय (इषुध्यति) याचते शरान् धरति वा (द्युम्नम्) धनं यशो वा (वृणीत) (पुष्यसे) पुष्टये (स्वाहा)॥२१॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। सर्वे मनुष्या विद्वद्भिः सह सुहृदो भूत्वा विद्यां यशश्च गृहीत्वा श्रीमन्तो भूत्वा सुपथ्येन पुष्टाः सन्तु॥२१॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal