अथर्ववेद - काण्ड 15/ सूक्त 17/ मन्त्र 9
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदा साम्नी त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्य॒व्रात्य॑स्य। यदा॑दि॒त्यम॑भिसंवि॒शन्त्य॑मावा॒स्यां चै॒व तत्पौ॑र्णमा॒सीं च॑॥
स्वर सहित पद पाठतस्य॑ । व्रात्य॑स्य । यत् । आ॒दि॒त्यम् । अ॒भि॒ऽसं॒वि॒शन्ति॑ । अ॒मा॒ऽवा॒स्या᳡म् । च॒ । ए॒व । तत् । पौ॒र्ण॒ऽमा॒सीम् । च॒॥१७.९॥
स्वर रहित मन्त्र
तस्यव्रात्यस्य। यदादित्यमभिसंविशन्त्यमावास्यां चैव तत्पौर्णमासीं च॥
स्वर रहित पद पाठतस्य । व्रात्यस्य । यत् । आदित्यम् । अभिऽसंविशन्ति । अमाऽवास्याम् । च । एव । तत् । पौर्णऽमासीम् । च॥१७.९॥
अथर्ववेद - काण्ड » 15; सूक्त » 17; मन्त्र » 9
विषय - व्रात्य के सामर्थ्य का उपदेश।
पदार्थ -
(तस्य) उस (व्रात्यस्य) व्रात्य [सत्यव्रतधारी अतिथि] के−(आदित्यम्) प्रकाशमान गुण में (यत्) जब (अभिसंविशन्ति) वे [विद्वान्-मन्त्र ८] सब ओर से यथावत् प्रवेश करतेहैं, (तत् एव) तब ही (अमावास्याम्) साथ-साथ बसने की क्रिया में (च च) और (पौर्णमासीम्) पूरे नापने [निश्चय करने] की क्रिया में [वे प्रवेश करते हैं] ॥९॥
भावार्थ - विद्वान् लोग आप्तसंन्यासी अतिथि के सत्सङ्ग से परस्पर उपकार और पदार्थों की परीक्षा आदिविद्याएँ ग्रहण करें ॥९॥
टिप्पणी -
९−(यत्) यदा (आदित्यम्) अघ्न्यादयश्च। उ० ४।११२।आङ्+दीपी दीप्तौ-यक्। पृषोदरादिरूपम्। आदीप्यमानं गुणम् (अभिसंविशन्ति) अभितःसर्वतः सम्यक् प्रविशन्ति। प्राप्नुवन्ति ते देवाः-म० ८ (अमावास्याम्) अ०७।७९।१। अमावस्यदन्यतरस्याम्। पा० ३।१।१२२। अमा+वस निवासे-ण्यत्, टाप्। अमा सहनिवसन्ति प्राणिनो यस्यां क्रियायां ताम् (च) (एव) (तत्) तदा (पौर्णमासीम्) अ०७।८०।१। पूर्ण+मसी परिणामे परिमाणे च-घञ्। पूर्णमासादण्। वा० पा० ४।२।३५।पूर्णमास-अण्। पूर्णो मासः परिमाणं परीक्षणं यस्यां क्रियायां ताम् (च) ॥