अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 4
सु॒तासो॒ मधु॑मत्तमाः॒ सोमा॒ इन्द्रा॑य म॒न्दिनः॑। प॒वित्र॑वन्तो अक्षरन्दे॒वान्ग॑छन्तु वो॒ मदाः॑ ॥
स्वर सहित पद पाठसु॒तास॑: । मधु॑मत्ऽतमा: । सोमा॑: । इन्द्रा॑य । म॒न्दिन॑: ॥ प॒वित्र॑ऽवन्त: । अ॒क्ष॒र॒न् । दे॒वान् । ग॒च्छ॒न्तु॒ । व॒: । मदा॑: ॥१३७.४॥
स्वर रहित मन्त्र
सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः। पवित्रवन्तो अक्षरन्देवान्गछन्तु वो मदाः ॥
स्वर रहित पद पाठसुतास: । मधुमत्ऽतमा: । सोमा: । इन्द्राय । मन्दिन: ॥ पवित्रऽवन्त: । अक्षरन् । देवान् । गच्छन्तु । व: । मदा: ॥१३७.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 4
विषय - राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ -
(सुतासः) निचोड़े हुए, (मधुमत्तमाः) अत्यन्त ज्ञान करनेवाले, (मन्दिनः) आनन्द देनेवाले, (पवित्रवन्तः) शुद्ध व्यवहारवाले (सोमाः) सोम [तत्त्व रस] (इन्द्राय) इन्द्र [बड़े ऐश्वर्यवाले पुरुष] के लिये (अक्षरन्) बहे हैं, (मदाः) वे आनन्द देनेवाले [तत्त्व रस] (वः) तुम (देवान्) विद्वानों को (गच्छन्तु) पहुँचें ॥४॥
भावार्थ - विद्वान् लोग ज्ञान के साथ सब पदार्थों का तत्त्व जानकर ऐश्वर्य बढ़ावें ॥४॥
टिप्पणी -
मन्त्र ४-६ ऋग्वेद में हैं-९।१०१।४-६, सामवेद-उ० २।२। तृच १, म० १ साम० पू० ६।६।३ ॥ ४−(सुतासः) निष्पादिताः (मधुमत्तमाः) मधुना ज्ञानेन अतिशयेन युक्ताः (सोमाः) तत्त्वरसाः (इन्द्राय) परमैश्वर्यवते मनुष्याय (मन्दिनः) अ० २०।१७।४। आनन्दयितारः (पवित्रवन्तः) शुद्धव्यवहारोपेताः (अक्षरन्) संचलनं कृतवन्तः (देवान्) विदुषः पुरुषान् (गच्छन्तु) प्राप्नुवन्तु (वः) (युष्मान्) (मदाः) हर्षकाः सोमाः ॥