अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 14
अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हद्द्यु॒म्नं स॑हस्र॒सात॑मम्। इन्द्र॒ ता र॒थिनी॒रिषः॑ ॥
स्वर सहित पद पाठअ॒स्मे इति॑ । धे॒हि॒ । श्रव॑: । बृ॒हत् । द्यु॒म्नम् । स॒ह॒स्र॒ऽसात॑मम् ॥ इन्द्र॑ । ता: । र॒थिनी॑: । इष॑: ॥७१.१४॥
स्वर रहित मन्त्र
अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम्। इन्द्र ता रथिनीरिषः ॥
स्वर रहित पद पाठअस्मे इति । धेहि । श्रव: । बृहत् । द्युम्नम् । सहस्रऽसातमम् ॥ इन्द्र । ता: । रथिनी: । इष: ॥७१.१४॥
अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 14
विषय - मनुष्य के कर्तव्य का उपदेश।
पदार्थ -
(इन्द्रः) हे इन्द्र ! [बड़े ऐश्वर्यवाले जगदीश्वर] (अस्मे) हमको (बृहत्) बढ़ता हुआ (श्रवः) सुनने योग्य धन और (सहस्रसातमम्) सहस्रों सुखों का देनेवाला (द्युम्नम्) चमकता हुआ यश और (ताः) वे [प्रसिद्ध] (रथिनी) रथों [यान विमान आदि] वाली (इषः) चलती हुई सेनाएँ (धेहि) दे ॥१४॥
भावार्थ - मनुष्य परमात्मा की प्रार्थनापूर्वक बहुत धन, कीर्ति और सेना के संग्रह से शत्रुओं का नाश करके सुख को प्राप्त होवें ॥१४॥
टिप्पणी -
१४−(अस्मे) अस्मभ्यम् (धेहि) देहि (श्रवः) श्रवणीयं धनम् (बृहत्) वर्धमानम् (द्युम्नम्) अ० ६।३।३। द्योतमानं यशः (सहस्रसातमम्) जनसनखनक्रमगमो विट्। पा० ३।२।६७। षणु दाने-विट्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। नकारस्य आकारः, ततस्तमप्। अतिशयेन सहस्रसुखप्रदम् (इन्द्र) परमैश्वर्यवन् जगदीश्वर (ताः) प्रसिद्धाः (रथिनीः) बहुयानविमानादियुक्ताः (इषः) इष गतौ-क्विप्। गतिशीलाः सेनाः ॥