अथर्ववेद - काण्ड 5/ सूक्त 14/ मन्त्र 12
सूक्त - शुक्रः
देवता - कृत्यापरिहरणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
इष्वा॒ ऋजी॑यः पततु॒ द्यावा॑पृथिवी॒ तं प्रति॑। सा तं मृ॒गमि॑व गृह्णातु कृ॒त्या कृ॑त्या॒कृतं॒ पुनः॑ ॥
स्वर सहित पद पाठइष्वा॑: । ऋजी॑य: । प॒त॒तु॒ । द्यावा॑पृथिवी॒ इति॑ । तम् । प्रति॑ । सा । तम् । मृ॒गम्ऽइ॑व । गृ॒ह्णा॒तु॒ । कृ॒त्या । कृ॒त्या॒ऽकृत॑म् । पुन॑: ॥१४.१२॥
स्वर रहित मन्त्र
इष्वा ऋजीयः पततु द्यावापृथिवी तं प्रति। सा तं मृगमिव गृह्णातु कृत्या कृत्याकृतं पुनः ॥
स्वर रहित पद पाठइष्वा: । ऋजीय: । पततु । द्यावापृथिवी इति । तम् । प्रति । सा । तम् । मृगम्ऽइव । गृह्णातु । कृत्या । कृत्याऽकृतम् । पुन: ॥१४.१२॥
अथर्ववेद - काण्ड » 5; सूक्त » 14; मन्त्र » 12
विषय - शत्रु के विनाश का उपदेश।
पदार्थ -
(द्यावापृथिवी) हे सूर्य और पृथिवी ! (सा) वह (कृत्या) शत्रुनाशक सेना (तम्) चोर (प्रति) पर (इष्वाः) बाण से (ऋजीयः) अधिक सीधी (पततु) गिरे और (पुनः) फिर (तम्) उस (कृत्याकृतम्) हिंसाकारी को (मृगम् इव) आखेट पशु के समान (गृह्णातु) पकड़ लेवे ॥१२॥
भावार्थ - मनुष्य आकाश और पृथिवी मार्ग से प्रबल सेना द्वारा शत्रुओं को मारें ॥१२॥
टिप्पणी -
१२−(इष्वाः) बाणात् (ऋजीयः) ऋजु−ईयसुन्। ऋजुतरम्। अधिकसरलम् (पततु) अधः पततु (द्यावापृथिवी) हे द्यावापृथिव्योः पदार्थाः (तम्) तर्दकं चोरम् (प्रति) (सा) (तम्) पूर्वोक्तम् (मृगम्) आखेटपशुम् (इव) यथा (गृह्णातु) आदत्ताम् (कृत्या) शत्रुनाशिका सेना (कृत्याकृतम्) हिंसाकारिणम् (पुनः) पश्चात्। अवश्यम् ॥