अथर्ववेद - काण्ड 5/ सूक्त 14/ मन्त्र 4
सूक्त - शुक्रः
देवता - कृत्यापरिहरणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
पुनः॑ कृ॒त्यां कृ॑त्या॒कृते॑ हस्त॒गृह्य॒ परा॑ णय। स॑म॒क्षम॑स्मा॒ आ धे॑हि॒ यथा॑ कृत्या॒कृतं॒ हन॑त् ॥
स्वर सहित पद पाठपुन॑: । कृ॒त्याम् । कृ॒त्या॒ऽकृते॑ । ह॒स्त॒ऽगृह्य॑ । परा॑ । न॒य॒ । स॒म्ऽअ॒क्षम् । अ॒स्मै॒ । आ । धे॒हि॒ । यथा॑ । कृ॒त्या॒ऽकृत॑म् । हन॑त् ॥१४.४॥
स्वर रहित मन्त्र
पुनः कृत्यां कृत्याकृते हस्तगृह्य परा णय। समक्षमस्मा आ धेहि यथा कृत्याकृतं हनत् ॥
स्वर रहित पद पाठपुन: । कृत्याम् । कृत्याऽकृते । हस्तऽगृह्य । परा । नय । सम्ऽअक्षम् । अस्मै । आ । धेहि । यथा । कृत्याऽकृतम् । हनत् ॥१४.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 14; मन्त्र » 4
विषय - शत्रु के विनाश का उपदेश।
पदार्थ -
(कृत्याम्) हिंसा को (कृत्याकृते) हिंसाकारी के लिये (हस्तगृह्य) हाथ में लेकर (पुनः) अवश्य (परा नय) दूर लेजा। (अस्मै) इस पुरुष के लिये (समक्षम्) सामने (आ धेहि) रख दे, (यथा) जिससे [वह पुरुष] (कृत्याकृतम्) हिंसाकारी को (हनत्) मारे ॥४॥
भावार्थ - मनुष्य हिंसा आदि कर्मों को इस प्रकार त्याग दे, जैसे उपद्रवी को हाथ पकड़ कर निकाल देते हैं ॥४॥
टिप्पणी -
४−(पुनः) अवधारणे (कृत्याम्) हिंसाम् (कृत्याकृते) हिंसाकारिणे (हस्तगृह्य) नित्यं हस्ते पाणावुपयमने। पा० १।४।७७। इति हस्तस्य गतित्वे सति ल्यप्। हस्ते गृहीत्वा (परा) दूरे (नय) प्रेरय (समक्षम्) अव्ययीभावे शरत्प्रभृतिभ्यः। पा० ५।४।१०७। इति सम्+अक्षि−टच्। अक्ष्णोः समीपे। सन्मुखे (अस्मै) पुरुषाय (आ धेहि) स्थापय (यथा) यस्मात् (कृत्याकृतम्) हिंसाकारिणम् (हनत्) हन्यात् ॥