अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 8
सूक्त - अथर्वा
देवता - अग्न्यादयः
छन्दः - पञ्चपदातिशक्वरी
सूक्तम् - दीर्घायु सूक्त
त्रयः॑ सुप॒र्णास्त्रि॒वृता॒ यदाय॑न्नेकाक्ष॒रम॑भिसं॒भूय॑ श॒क्राः। प्रत्यौ॑हन्मृ॒त्युम॒मृते॑न सा॒कम॑न्त॒र्दधा॑ना दुरि॒तानि॒ विश्वा॑ ॥
स्वर सहित पद पाठत्रय॑: । सु॒ऽप॒र्णा: । त्रि॒ऽवृता॑ । यत् । आय॑न् । ए॒क॒ऽअ॒क्ष॒रम् । अ॒भि॒ऽसं॒भूय॑ । श॒क्रा: । प्रति॑ । औ॒ह॒न् । मृ॒त्युम् ।अ॒मृते॑न । सा॒कम् । अ॒न्त॒:ऽदधा॑ना: । दु॒:ऽइ॒तानि॑ । विश्वा॑ ॥२८.८॥
स्वर रहित मन्त्र
त्रयः सुपर्णास्त्रिवृता यदायन्नेकाक्षरमभिसंभूय शक्राः। प्रत्यौहन्मृत्युममृतेन साकमन्तर्दधाना दुरितानि विश्वा ॥
स्वर रहित पद पाठत्रय: । सुऽपर्णा: । त्रिऽवृता । यत् । आयन् । एकऽअक्षरम् । अभिऽसंभूय । शक्रा: । प्रति । औहन् । मृत्युम् ।अमृतेन । साकम् । अन्त:ऽदधाना: । दु:ऽइतानि । विश्वा ॥२८.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 8
विषय - रक्षा और ऐश्वर्य का उपदेश।
पदार्थ -
(त्रयः) तीन (शक्राः) समर्थ (सुपर्णाः) बड़े पोषक पदार्थ (त्रिवृता) त्रिवृति [तीन जीवनसाधन] के साथ (एकाक्षरम्) एक अविनाशी ब्रह्म को (अभिसंभूय) सब ओर से प्राप्त कर के (यत्) जब (आयन्) प्राप्त हुए। (विश्वा) सब (दुरितानि) अनिष्टों को (अन्तर्दधानाः) ढकते हुए उन्होंने (अमृतेन साकम्) मृत्यु से बचने के साधन के साथ [वर्तमान हो कर] (मृत्युम्) मृत्यु के कारण को (प्रति औहन्) मिटा दिया ॥८॥
भावार्थ - मनुष्य पुरुषार्थ आदि [म० १] तीन उपायों से अन्न, पुरुष और पशु द्वारा [म० ३] दरिद्रता आदि कष्टों को हटाकर अपना जीवन सुफल करें ॥८॥
टिप्पणी -
८−(त्रयः) (सुपर्णाः) अ० १।२४।१। सुपोषकपदार्थाः−म० ३। (त्रिवृता) म० २। त्रिवृत्या त्रिजीवनवर्त्तनेन−म० १। (यत्) यदा (आयन्) इण्−लङ्। अगच्छन् (एकाक्षरम्) न क्षरतीति अक्षरम्। क्षर संचलने−अच्। अद्वितीयं विनाशरहितं ब्रह्म (अभिसंभूय) भू प्राप्तौ−ल्यप्। सर्वतः प्राप्य (शक्राः) शक्ताः (प्रति) प्रतिकूलम् (औहन्) उहिर् अर्दने−लङ्। हतवन्तः (मृत्युम्) मरणसाधनं बुभुक्षादिरूपम् (अमृतेन) अमरणसाधनेन (साकम्) सहवर्तमानाः सन्तः (अन्तर्दधानाः) आच्छादयन्तः (दुरितानि) अनिष्टानि (विश्वा) सर्वाणि ॥