अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 4
सूक्त - अथर्वा
देवता - अग्न्यादयः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायु सूक्त
इ॒ममा॑दित्या॒ वसु॑ना॒ समु॑क्षते॒मम॑ग्ने वर्धय वावृधा॒नः। इ॒ममि॑न्द्र॒ सं सृ॑ज वी॒र्ये॑णा॒स्मिन्त्रि॒वृच्छ्र॑यतां पोषयि॒ष्णु ॥
स्वर सहित पद पाठइ॒मम् । आ॒दि॒त्या॒: । वसु॑ना । सम् । उ॒क्ष॒त॒ । इ॒मम् । अ॒ग्ने॒ । वर्ध॒य॒ । व॒वृ॒धा॒न:। इ॒मम् । इ॒न्द्र॒ । सम् । सृ॒ज॒ । वी॒र्ये᳡ण । अ॒स्मिन् । त्रि॒ऽवृत् । श्र॒य॒ता॒म् । पो॒ष॒यि॒ष्णु ॥२८.४॥
स्वर रहित मन्त्र
इममादित्या वसुना समुक्षतेममग्ने वर्धय वावृधानः। इममिन्द्र सं सृज वीर्येणास्मिन्त्रिवृच्छ्रयतां पोषयिष्णु ॥
स्वर रहित पद पाठइमम् । आदित्या: । वसुना । सम् । उक्षत । इमम् । अग्ने । वर्धय । ववृधान:। इमम् । इन्द्र । सम् । सृज । वीर्येण । अस्मिन् । त्रिऽवृत् । श्रयताम् । पोषयिष्णु ॥२८.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 4
विषय - रक्षा और ऐश्वर्य का उपदेश।
पदार्थ -
(आदित्याः) हे तेजस्वी पुरुषो ! (इमम्) इस पुरुष को (वसुना) धन से (सम्) अच्छे प्रकार (उक्षत) सींचो, (अग्ने) हे सर्वज्ञ परमात्मन् ! (वावृधानः) बढ़ता हुआ तू (इमम्) पुरुष को (वर्धय) बढ़ा, (इन्द्र) हे परम ऐश्वर्यवाले जगदीश्वर ! (इमम्) इस पुरुष को (वीर्येण) वीरता से (सं सृज) संयुक्त कर। (अस्मिन्) इस पुरुष में (पोषयिष्णु) पुष्टि देनेवाली (त्रिवृत्) त्रिवृति [म० १] (श्रयताम्) ठहरी रहे ॥४॥
भावार्थ - विद्वान् जन उपदेश करें कि सब मनुष्य उत्तम पुरुषार्थ, उत्तम प्रबन्ध और उत्तम कर्म से अन्न पुरुष और पशुओं को प्राप्त करके आनन्द भोगें ॥४॥
टिप्पणी -
४−(इमम्) पुरुषम् (आदित्याः) अ० १।८।१। तेजस्विनः पुरुषाः (वसुना) धनेन (सम्) सम्यक् (उक्षत) सिञ्चत (अग्ने) सर्वज्ञ परमेश्वर (वर्धय) समर्धय (वावृधानः) अ० १।८।४। प्रवृद्धः (इमम्) (इन्द्र) परमैश्वर्यवन् जगदीश्वर (सं सृज) संयोजय (वीर्येण) वीरभावेन (अस्मिन्) पुरुषे (त्रिवृत्) हरितरजतायोरूपा त्रिवृतिः (श्रयताम्) तिष्ठतु (पोषयिष्णु) अ० ३।१४।६। पोषकम् ॥