अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 12
सूक्त - चातनः
देवता - जातवेदाः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - रक्षोघ्न सूक्त
स॒माह॑र जातवेदो॒ यद्धृ॒तं यत्परा॑भृतम्। गात्रा॑ण्यस्य वर्धन्तामं॒शुरि॒वा प्या॑यताम॒यम् ॥
स्वर सहित पद पाठस॒म्ऽआह॑र । जा॒त॒ऽवे॒द॒: । यत् । हृ॒तम् । यत् । परा॑ऽभृतम् । गात्रा॑णि । अ॒स्य॒ । व॒र्ध॒न्ता॒म् । अं॒शु:ऽइ॑व । आ । प्या॒य॒ता॒म् । अ॒यम् ॥२९.१२॥
स्वर रहित मन्त्र
समाहर जातवेदो यद्धृतं यत्पराभृतम्। गात्राण्यस्य वर्धन्तामंशुरिवा प्यायतामयम् ॥
स्वर रहित पद पाठसम्ऽआहर । जातऽवेद: । यत् । हृतम् । यत् । पराऽभृतम् । गात्राणि । अस्य । वर्धन्ताम् । अंशु:ऽइव । आ । प्यायताम् । अयम् ॥२९.१२॥
अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 12
विषय - शत्रुओं और रोगों के नाश का उपदेश।
पदार्थ -
(जातवेदः) हे विद्या में प्रसिद्ध ! उसे ! (समाहर) भर दे (यत्) जो कुछ (हृतम्) हर लिया गया, अथवा (यत्) जो कुछ (पराभृतम्) हटाया गया है। (अस्य) इस [मनुष्य] के (गात्राणि) सब अङ्ग (वर्धन्ताम्) बढ़ें। (अयम्) यह पुरुष (अंशुः इव) वृक्ष के अङ्कुर के समान (आ प्यायताम्) बढ़ता रहे ॥१२॥
भावार्थ - सद्वैद्य रोगों को हटाकर प्राणियों को स्वस्थ रक्खें ॥१२॥
टिप्पणी -
१२−(समाहर) सम्यगानय पूरय (जातवेदः) प्रसिद्धविद्य (यत्) (हृतम्) गृहीतम् (यत्) (पराभृतम्) दूरे हृतम् (गात्राणि) अ० १।१२।४। गम्लृ−त्रन्, मस्य आकारः। अङ्गानि (अस्य) पुरुषस्य (वर्धन्ताम्) प्रवृद्धानि भवन्तु (अंशुः) मृगय्वादयश्च। उ० १।३७। इति अंश विभाजने−कु। वृक्षसूक्ष्माङ्कुरः (इव) यथा (आ) समन्तात् (प्यायताम्) प्रवृद्धो भवतु (अयम्) ॥