अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 2
तथा॒ तद॑ग्ने कृणु जातवेदो॒ विश्वे॑भिर्दे॒वैः स॒ह सं॑विदा॒नः। यो नो॑ दि॒देव॑ यत॒मो ज॒घास॒ यथा॒ सो अ॒स्य प॑रि॒धिष्पता॑ति ॥
स्वर सहित पद पाठतथा॑ । तत् । अ॒ग्ने॒ । कृ॒णु॒ । जा॒त॒ऽवे॒द॒: । विश्वे॑भि: । दे॒वै: । स॒ह । स॒म्ऽवि॒दा॒न: । य: । न॒: । दि॒देव॑ । य॒त॒म: । ज॒घास॑ । यथा॑ । स: । अ॒स्य । प॒रि॒ऽधि: । पता॑ति ॥२९.२॥
स्वर रहित मन्त्र
तथा तदग्ने कृणु जातवेदो विश्वेभिर्देवैः सह संविदानः। यो नो दिदेव यतमो जघास यथा सो अस्य परिधिष्पताति ॥
स्वर रहित पद पाठतथा । तत् । अग्ने । कृणु । जातऽवेद: । विश्वेभि: । देवै: । सह । सम्ऽविदान: । य: । न: । दिदेव । यतम: । जघास । यथा । स: । अस्य । परिऽधि: । पताति ॥२९.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 2
विषय - शत्रुओं और रोगों के नाश का उपदेश।
पदार्थ -
(तत्) सो (जातवेदः) हे विद्या में प्रसिद्ध (अग्ने) विद्वान् पुरुष ! (विश्वेभिः) सब (देवैः सह) उत्तम गुणों के साथ (संविदानः) मिलता हुआ तू (तथा) वैसा (कृणु) कर। (यथा) जिस से (अस्य) उस [शत्रु] का (सः परिधिः) वह परकोटा (पताति) गिर पड़े, (यः) जिस [शत्रु] ने (नः) हमें (दिदेव) सताया है, अथवा (यतमः) जिस किसी ने (जघास) खाया है ॥२॥
भावार्थ - प्रजा के सतानेवाले शत्रुओं को राजा यथावत् दण्ड देवे ॥२॥
टिप्पणी -
२−(तथा) तेन प्रकारेण (तत्) तस्मात् (अग्ने) विद्वन् (कृणु) कुरु (जातवेदः) हे प्रसिद्धविद्य (विश्वेभिः) सर्वैः (देवैः) उत्तमगुणैः (सह) सहितः (संविदानः) संगच्छमानः (यः) शत्रुः (नः) अस्मान् (दिदेव) दिवु मर्दने−लिट्, चुरादिः। ममर्द (यतमः) यः कश्चित् (जघास) भक्षितवान् (यथा) येन प्रकारेण (सः) प्रसिद्धः (अस्य) शत्रोः (परिधिः) अ० ४।९।१। प्राकारः (पताति) लेटि रूपम्। अधो गच्छेत् ॥