अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 7
क्षी॒रे मा॑ म॒न्थे य॑त॒मो द॒दम्भा॑कृष्टप॒च्ये अश॑ने धा॒न्ये॒ यः। तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो॒यम॑स्तु ॥
स्वर सहित पद पाठक्षी॒रे । मा॒ । म॒न्थे । य॒त॒म: । द॒दम्भ॑ । अ॒कृ॒ष्ट॒ऽप॒च्ये । अश॑ने । धा॒न्ये᳡ । य: । तत् । आ॒त्मना॑ । प्र॒ऽजया॑ । पि॒शा॒चा: । वि । या॒त॒य॒न्ता॒म् । अ॒ग॒द: । अ॒यम् ।अ॒स्तु॒ ॥२९.७॥
स्वर रहित मन्त्र
क्षीरे मा मन्थे यतमो ददम्भाकृष्टपच्ये अशने धान्ये यः। तदात्मना प्रजया पिशाचा वि यातयन्तामगदोयमस्तु ॥
स्वर रहित पद पाठक्षीरे । मा । मन्थे । यतम: । ददम्भ । अकृष्टऽपच्ये । अशने । धान्ये । य: । तत् । आत्मना । प्रऽजया । पिशाचा: । वि । यातयन्ताम् । अगद: । अयम् ।अस्तु ॥२९.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 7
विषय - शत्रुओं और रोगों के नाश का उपदेश।
पदार्थ -
(यतमः) जिस किसी ने (क्षीरे) दूध में, अथवा (मन्थे) मट्ठे में, अथवा (यः) जिसने (अकृष्टपच्ये) विना जुते खेत से उत्पन्न (अशने) भोजन में, अथवा (धान्ये) यव आदि धान्य में (मा) मुझे (ददम्भ) धोखा दिया है। (तत्) उससे.... म० ६ ॥७॥
भावार्थ - मन्त्र ६ देखो ॥७॥
टिप्पणी -
७−(क्षीरे) दुग्धे (मा) माम् (मन्थे) पेयभेदे। तक्रे (यतमः) यः कश्चित् (ददम्भ) वञ्चितवान् (अकृष्टपच्ये) राजसूयसूर्य०। पा० ३।१।११४। इति अकृष्ट+पच पाके−क्यप्। कृष्यादिकं विना स्वयं पक्वे नीवारादौ (अशने) भोजने (धान्ये) अ० ३।२६।३। यवाद्यन्ये ॥