अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 13
सूक्त - चातनः
देवता - जातवेदाः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - रक्षोघ्न सूक्त
सोम॑स्येव जातवेदो अं॒शुरा प्या॑यताम॒यम्। अग्ने॑ विर॒प्शिनं॒ मेध्य॑मय॒क्ष्मं कृ॑णु॒ जीव॑तु ॥
स्वर सहित पद पाठसोम॑स्यऽइव । जा॒त॒ऽवे॒द॒: । अ॒शु: । आ । प्या॒य॒ता॒म् । अ॒यम् । अग्ने॑ । वि॒ऽर॒प्शिन॑म् । मेध्य॑म् । अ॒य॒क्ष्मम् । कृ॒णु॒ । जीव॑तु ॥२९.१३॥
स्वर रहित मन्त्र
सोमस्येव जातवेदो अंशुरा प्यायतामयम्। अग्ने विरप्शिनं मेध्यमयक्ष्मं कृणु जीवतु ॥
स्वर रहित पद पाठसोमस्यऽइव । जातऽवेद: । अशु: । आ । प्यायताम् । अयम् । अग्ने । विऽरप्शिनम् । मेध्यम् । अयक्ष्मम् । कृणु । जीवतु ॥२९.१३॥
अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 13
विषय - शत्रुओं और रोगों के नाश का उपदेश।
पदार्थ -
(जातवेदः) हे विद्या में प्रसिद्ध ! (अयम्) यह पुरुष (सोमस्य अंशुः इव) चन्द्रमा की किरण अथवा सोमलता के अङ्कुर के समान (आ प्यायताम्) बढ़ता रहे। (अग्ने) हे विद्वान् पुरुष ! तू (विरप्शिनम्) विविध प्रकार से कहने योग्य महागुणी पुरुष को (अयक्ष्मम्) नीरोग और (मेध्यम्) बुद्धि के लिये हितकारी (कृणु) कर, और (जीवतु) वह जीता रहे ॥१३॥
भावार्थ - विद्वान् पुरुष शारीरिक और आत्मिक रोगों को नाश करके सब को प्रसन्न रक्खे ॥१३॥
टिप्पणी -
१३−(सोमस्य) चन्द्रस्य सोमवृक्षस्य वा (इव) यथा (अंशुः) म० १२। किरणो अङ्कुरो वा (आ) सम्यक् (प्यायताम्) वर्धताम् (अयम्) पुरुषः (अग्ने) विद्वन् (विरप्शिनम्) वि+रप व्यक्तायां वाचि−शक्। विविधं रपणं विरप्शः। तदस्यास्ति, इनि। विरप्शी, महन्नाम−निघ० ३।३। महागुणविशिष्टम् (मेध्यम्) उगवादिभ्यो यत्। पा० ५।१।२। इति मेधा-यत्। मेधायै हितम्। मेधाविनम् (अयक्ष्मम्) नीरोगम् (कृणु) कुरु (जीवतु) सप्राणान् धारयतु ॥