अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 11
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - विराड्गायत्री
सूक्तम् - विराट् सूक्त
तां र॑ज॒तना॑भिः काबेर॒कोधो॒क्तां ति॑रो॒धामे॒वाधो॑क्।
स्वर सहित पद पाठताम् । र॒ज॒तऽना॑भि: । का॒बे॒र॒क: । अ॒धो॒क् । ताम् । ति॒र॒:ऽधाम् । ए॒व । अ॒धो॒क् ॥१४.११॥
स्वर रहित मन्त्र
तां रजतनाभिः काबेरकोधोक्तां तिरोधामेवाधोक्।
स्वर रहित पद पाठताम् । रजतऽनाभि: । काबेरक: । अधोक् । ताम् । तिर:ऽधाम् । एव । अधोक् ॥१४.११॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 5;
मन्त्र » 11
विषय - ब्रह्मविद्या का उपदेश।
पदार्थ -
(ताम्) उस [विराट्] को (काबेरकः) प्रशंसनीय गुणों के निवास (रजतनाभिः) ज्ञान के प्रबन्धक [वा क्षत्रिय] ने (अधोक्) दुहा है, (ताम्) उस (तिरोधाम्) अन्तर्धान शक्ति को (एव) ही (अधोक्) दुहा है ॥११॥
भावार्थ - ज्ञानी शूर पुरुष ईश्वरशक्ति से उपकार लेते हैं ॥११॥
टिप्पणी -
११−(ताम्) विराजम् (रजतनाभिः) पृषिरञ्जिभ्यां कित्। उ० ३।१११। रजति गतिकर्मा-निघ० २।१४। अतच्। नहो भश्च। उ० ४।१२६। णह बन्धने-इञ्, हस्य भः। नाभिः सन्नहनान्नाभ्या सन्नद्धा गर्भा जायन्त इत्याहुरेतस्मादेव ज्ञातीन् सनाभय इत्याचक्षते सबन्धव इति च-निरु० ४।२१। गतेर्ज्ञानस्य प्रबन्धकः क्षत्रियो वा (काबेरकः) पतिकठिकुठि०। उ० १।५८ कबृ स्तुतौ वर्णे च-एरक्, यद्वा कवते गतिकर्मा-निघ० २।४। एरक्। वुञ्छण्कठ०। पा० ४।२।८०। कवेर-वुञ्। तस्य निवासः। पा० ४।२।६८। इत्यर्थे। कवेराणां स्तुत्यगुणानां निवासः (तिरोधाम्) म० ९। अन्तर्धानशक्तिम्। अन्यत् पूर्ववत् ॥